________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः
सर्गः
॥ ४५ ॥
श्रीऋषभस्वामिचरितम् ।
मद्भाग्यप्रेरितेनेव, स्वयम्बुद्धेन मन्त्रिणा । धर्म प्रबोधितो जैनमायुःशेषेऽहमाप्तवान् ॥ ६१७ ॥ इयत्कालं च तद्धर्मप्रभावाच्छ्रीप्रभे प्रभुः । सातोऽहमतव्योष्ये, नाऽलभ्यं लभ्यते क्वचित् ।। ६१८ ॥ एवमाभाषमाणस्य, तस्याऽऽदिये बिडौजसा । दृढधर्माभिधो देवो, जगादैवमुपेत्य तम् ॥ ६१९ ॥ जिनेन्द्रप्रतिमापूजा, कर्तुं नन्दीश्वरादिषु । यास्यत्यैशानकल्पेन्द्रस्त्वमप्येहि तदाज्ञया ।। ६२० ॥ अहो ! भाग्यवशात् कालोचितं मे स्वामिशासनम् । इति प्रमुदितोऽचालीललिताङ्गः सवल्लभः ।। ६२१ ।। गत्वा नन्दीश्वरे सोऽर्हत्प्रतिमाः शाश्वतीस्ततः । आनर्च विस्मृतासन्नच्यवनः परया मुदा ।। ६२२ ॥ ततोऽप्यन्येषु तीर्थेषु, गच्छन् स्वच्छेन चेतसा । सोऽगादभावं क्षीणायुः, क्षीणतैलप्रदीपवत् ।। ६२३ ॥ जम्बूद्वीपे ततः पूर्वविदेहेषूपसागरम् । महानद्याश्च सीताभिधानाया उत्तरे तटे ॥ २४ ॥ विजये पुष्कलावत्यां, लोहार्गलमहापुरे । राज्ञः सुवर्णजङ्घस्य, लक्ष्म्यां पल्यां सुतोऽभवत् ॥ २५ ॥
॥युग्मम् ॥ अथ कन्दलितानन्दावमुष्य दिवसे शुभे । वज्रजङ्घ इति प्रीतौ, पितरौ नाम चक्रतुः ।। ६२६ ।। स्वयम्प्रभाऽपि दुःखार्ता, कालेन कियताऽऽप्यथ । धर्मकर्मणि संलीना, व्यच्योष्ट ललिताङ्गवत् ।। ६२७ ॥ नगर्या पुण्डरीकिण्यां, विजयेऽत्रैव चक्रिणः । वज्रसेनस्य भार्यायां, गुणवत्यां सुताऽभवत् ।। ६२८ ॥ सर्वलोकातिशायिन्या, श्रियाऽसौ संयुता ततः । श्रीमतीत्यभिधानेन, पितृभ्यामभ्यधीयत ।। ६२९ ।। लतेवोद्यानपालीभिर्धात्रीभिर्लालिता सती । महङ्गी विलसत्पाणिपल्लवा ववृधे क्रमात् ॥६३० ॥
पूर्वभवचरिते षष्ठो वजजङ्व भवः ।
॥४५॥