________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्ग: श्रीऋषभस्वामिचरितम् ।
॥ ४४ ॥
रममाणस्तया सार्द्ध, गते काले कियत्यपि । आत्मच्यवनचिह्नानि, ललिताङ्गो व्यलोकयत् ।। ६०२ ।। तस्य रत्नाभरणानि, निस्तेजस्कानि जज्ञिरे । मम्लुश्च मौलिमाल्यानि, तद्वियोगभयादिव ।। ६०३ ।। मालिन्यं भेजिरे सद्यस्तस्याऽङ्ग वसनानि च । आसन्ने व्यसने लक्ष्म्या, लक्ष्मीनाथोऽपि मुच्यते ॥६०४ ।। भोगेष्वत्यन्तमासक्तिस्तस्याऽभूद् धर्मबाधया । प्रकृतिव्यत्ययः प्रायो, भवत्यन्ते शरीरिणाम् ।। ६०५ ॥ जजल्प शोकविरसं, तस्य सर्वः परिच्छदः । भाविकार्यानुसारेण, वागुच्छलति जल्पताम् ।। ६०६ ।। आकालप्रतिपन्नाभ्यां, प्रियाभ्यां च सहैव हि । कृतापराध इव स, श्रीहीभ्यां पर्यमुच्यत ।। ६०७ ।। अदीनोऽपि हि दैन्येन, विनिद्रोऽपि हि निद्रया । स शिश्रिये मृत्युकाले, पक्षाभ्यामिव कीटिका ।। ६०८ ॥ हृदयेन समं तस्य, विश्लिष्यत्सन्धिबन्धनाः । महाबलैरप्यकम्प्याः, कल्पवृक्षाचकम्पिरे ।। ६०९ ।। तस्याऽरुजोऽप्यभज्यन्त, सर्वाङ्गोपाङ्गसन्धयः । भाविदुर्गतियानोत्थवेदनाशङ्कनादिव ।।६१०॥ पदार्थग्रहणे तस्याऽपटुदृष्टिरजायत । तथैव स्थितिमन्येषामक्षमेव निरीक्षितुम् ।।६११ ॥ गर्भावासनिवासोत्थदुःखागमभयादिव । प्रकम्पतरलान्यङ्गान्यस्याऽजायन्त तत्क्षणम् ।। ६१२ ॥ क्रीडागिरि-सरिद्वापी-दीर्घिकोपवनेषु सः । रम्येष्वपि रतिं नाप, सपाकल इव द्विपः ॥ ६१३ ।। ततः स्वयम्प्रभाऽवोचदपराद्धं न किं मया ? । विमनस्कतया देव!, यदेवमुपलक्ष्यसे ।। ६१४ ।। ललिताङ्गोऽप्युवाचैवं, नाऽपराद्धं प्रिये ! त्वया । अपराद्धं मया सुभु!, यदल्पं प्राक्कृतं तपः ॥ ६१५ ।। भोगेषु जागरूकोऽहं, धर्मे सुप्त इवाऽनिशम् । पूर्वजन्मन्यभूवं हि, विद्याधरनरेश्वरः ।। ६१६ ।। १ विष्णुः । २ परिवारः । * सपकिल । ३ पाकलो गजज्चरः ।
पूर्वभवचरिते पञ्चमो ललिताङ्गदेव भवः ।
।४४॥