________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ४३ ॥
असत्यं सर्वथा त्याज्यमसत्यवचनेन यत् । चिरं भ्रमति संसारे, जन्तुस्तृण्येव वात्यया ।। ५८७ ।। अदत्तं नाददीतार्थमदत्तादानतो यतः । कपिकच्छूफलस्पर्शादिव जातु सुखं न हि ।। ५८८ ।। अब्रह्म परिहर्त्तव्यमब्रह्मचरणेन हि । धृत्वा गले रङ्क इव, नीयते नरके जनः ।। ५८९ ।। परिग्रहो न कर्त्तव्यः, परिग्रहवशेन यत् । दुःखपङ्के जनो मज्जत्यतिभारेण गौरिव ।। ५९० ।। पञ्चाऽप्यमूनि हिंसादीन्युत्सृजेद् देशतोऽपि यः । उत्तरोत्तरकल्याणसम्पदां सोऽपि भाजनम् ।। ५९१ ।। अथ साऽऽसादयामास, संवेगमतिशायिनम् । अयोगोल इवाऽभेद्यः, कर्मग्रन्थिरभिद्यत ।। ५९२ ।। महामुनेः पुरः साऽथ, सम्यक् सम्यक्त्वमाददे । प्रतिपेदे जिनोपज्ञ, गृहिधर्मं च भावतः ।। ५९३ ।। अहिंसादीनि पञ्चाऽपि तदैवाऽणुव्रतानि सा । परलोकाध्वपाथेयभूतानि प्रत्यपद्यत ।। ५९४ ।। मुनिनाथं प्रणम्याऽथ, गृहीत्वा दारुभारकम् । जगाम कृतकृत्येव, मुदिता सा स्वमालयम् ॥ ५९५ ।। ततः प्रभृति सा तेपे, तपो नानाविधं सुधीः । स्वनामेवाऽविस्मरन्ती, युगन्धरमुनेर्गिरम् ।। ५९६ । न हि कश्चिदुपायंस्त, दुर्भगां यौवनेऽपि ताम् । कटुतुम्ब्याः पक्वमपि फलमश्नाति कोऽथवा ? ।। ५९७ ।। ततो विशिष्टसंवेगा, तत्राऽद्रावेयुषः पुनः । युगन्धरमुनेरग्रे, साऽस्त्यात्तानशनाऽधुना ।। ५९८ ।। तद् गच्छ दर्शयाऽस्याः स्वं त्वयि रक्ता सती मृता । सा ते पत्नी भवेदन्ते, या मतिः सा गतिः किल ।। ५९९ ॥ तच्चक्रे ललिताङ्गोऽपि, साऽपि तद्रागिणी सती । मृत्वा स्वयम्प्रभा नाम, तत्पल्यजनि पूर्ववत् ॥ ६०० ।। प्रणष्टयं प्रणयक्रोधादिव प्राप्य प्रियां ततः । स रेमेऽभ्यधिकं तापे, रत्यै छाया हि जायते ॥ ६०१ ॥
१ तृणसमूह इव । २ लोहगोलः । ३ जिनोपदिष्टम् । ४ गृहीतानशना ।
6:
प्रथमं पर्व प्रथमः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
पूर्वभव
चरिते पञ्चमो ललिताङ्गदेव
भवः ।
॥४३॥