SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । ॥४२॥ उत्कील्यन्ते त्वचयद्भिर्भूज्यन्ते च भटित्रवत् । भोक्तुकामैर्विपच्यन्ते, निगाल्यन्ते वसार्थिभिः ।। ५७२ ।। प्राणिनश्च स्थलचरा, अबला बलवत्तरैः । मृगाद्याः सिंहप्रमुखैार्यन्ते मांसकामिभिः ।। ५७३ ।। मृगयासक्तचित्तैश्च, क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन, हन्यन्तेऽनपराधिनः ।। ५७४ ।। क्षुधा-पिपासा-शीतोष्णा-ऽतिभारारोपणादिना । कशा-ऽङ्कुश-प्रतोदैश्च, सहन्ते वेदनाममी ।। ५७५ ।। खेचरास्तित्तिरि-शुक-कपोत-चटकादयः । श्येन-शिञ्चान-गृध्राद्यैर्गृह्यन्ते मांसगृनुभिः ।। ५७६ ॥ मांसलुब्धैः शाकुनिकै नोपायप्रपञ्चतः । सङ्गह्य प्रतिहन्यन्ते, नानारूपैर्विडम्बनैः ।। ५७७ ।। जलादिशस्त्रादिभवं, तिरश्चां सर्वतो भयम् । अभग्नप्रसरं स्वस्वकर्मबन्धनिबन्धनम् ।। ५७८ ।। मानुष्यकेऽपि सम्प्राप्ते, जायन्ते केऽपि जन्मिनः । जन्मान्धबधिरा जन्मपङ्गवो जन्मकुष्ठिनः ॥ ५७९ ।। चौरिकापारदारिक्यप्रसक्ताः केऽपि मानवाः । नवैर्नवैर्निगृह्यन्ते, निग्रहैर्नारका इव ।। ५८० ॥ विविधैर्व्याधिभिः केऽपि, बाध्यमाना निरन्तरम् । प्रेक्षमाणाः परमुखमुपेक्ष्यन्ते सुतैरपि ।। ५८१ ॥ मूल्यक्रीताश्च ताड्यन्ते, केचिदश्वतरा इव । अतिभारेण बाध्यन्तेऽनुभाव्यन्ते तृषादिकम् ।। ५८२ ।। परस्परपराभूतिक्लिष्टनां धुसदामपि । स्वस्वामिभावबद्धानां, दुःखमेव निरन्तरम् ।। ५८३ ॥ अस्मिन्नसारे संसारे, निसर्गेणाऽतिदारुणे । अवधिर्न हि दुःखाना, यादसामिव वारिधौ ।। ५८४ ॥ संसारे दुःखनिलये, जैनो धर्मः प्रतिक्रिया । मन्त्राक्षरमिव स्थाने, भूतप्रेतादिसङ्कले ।। ५८५ ।। जातु हिंसा न कर्त्तव्या, हिंसया हि शरीरिणः । पोतो इवाऽतिभारेण, मज्जन्ति नरकार्णवे ।। ५८६ ॥ १ जलजन्तूनाम् । २ प्रतीकारः । ३ प्रवहणानि । पूर्वभवचरिते पञ्चमो ललिताङ्गदेव भवः । ॥४२॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy