________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
प्रथमः
।। ४१ ॥
सर्गः श्रीऋषभस्वामिचरितम् ।
एकग्रामसभावाससुप्तपान्थजनोपमः । पुत्रमित्रकलत्रादिसङ्गमः सर्वदेहिनाम् ।। ५५७ ॥ लक्षेषु चतुरशीतौ, योनिषु भ्रमतामिह । अनन्तो दुःखसम्भारः, स्वकर्मपरिणामजः ।। ५५८ ॥ अथ निर्नामिकाऽवोचद्, भगवन्तं कृताञ्जलिः । तुल्यो राज्ञि च रङ्केच, यत् त्वं विज्ञप्यसे ततः ।। ५५९ ।। संसारो दुःखसदनं, भगवद्भिः प्रकीर्तितः । अस्ति किं कश्चिदप्यत्र, मत्तोऽप्यधिकदुःखितः ? ॥ ५६०॥ भगवानप्युवाचैवं, दुःखं दुःखितमानिनि! । भवत्याः कीदृशं भद्रे!, दुःखितानपरान् शृणु ।। ५६१ ॥ स्वकर्मपरिणामेनोत्पद्यन्ते नरकावनौ । भैदिकाश्छैदिकाः शीर्षछेद्याश्चाऽपि शरीरिणः ।। ५६२ ॥ तीलपीडं निपीड्यन्ते, यन्त्रैस्तत्र हि केचन । दारुदारं च दार्यन्ते, क्रकचैः केऽपि दारुणैः ।। ५६३ ॥ शूलतूलिकशय्यासु, शाय्यन्ते केऽपि सन्ततम् । असुरैर्वस्त्रवत् केचिदास्फाल्यन्ते शिलातले ॥ ५६४ ।। कुट्यन्ते केऽप्यर्यस्पात्राणीव लोहघनैर्घनैः । खण्ड्यन्ते शाकपणिका, इव केचन खण्डशः ।। ५६५ ॥ भूयोऽपि मिलिताङ्गास्ते, भूयो भूयस्तथैव हि । तद्दुःखमनुभाव्यन्ते, क्रन्दन्तः करुणस्वरम् ॥ ५६६ ॥ पिपासिताश्च पाय्यन्ते, तप्तत्रपुरसं मुहुः । छायार्थिनो निषाद्यन्ते, चाऽसिपत्रतरोस्तले ।। ५६७ ॥ मुहूर्तमपि न स्थातुं, लभन्ते वेदनां विना । नरके नारकाः कर्म, स्मार्यमाणाः पुराकृतम् ।। ५६८ ।। वत्से ! नारकर्षण्ढानां, यद् दुःखं तदशेषतः । श्राव्यमाणमपि प्राणभाजां दुःखाय जायते ।। ५६९ ॥ किञ्च प्रत्यक्षमीक्ष्यन्ते, जल-स्थल-खचारिणः । प्राणिनो विविधं दुःखमापेदानाः स्वकर्मजम् ॥५७० ॥ तत्र वारिचराः स्वैरं, खादन्त्यन्योऽन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते, गिल्यन्ते च बकादिभिः ॥ ५७१ ॥ १ भेदनीयाः । २ छेदनीयाः ।३ लोहपात्राणि । ४ शाकावयवाः । ५ नारकिनाम् । ६ प्राप्नुवन्तः ।
पूर्वभवचरिते पञ्चमो ललिताङ्गदेव भवः ।
॥४१॥