________________
त्रिषष्टिशलाका
पुरुषचरिते
।। ४० ।।
साऽपालयन्न तां सम्यगवर्द्धिष्ट तथाऽपि सा । जन्तोर्वज्राहतस्याऽपि मृत्युर्नाऽत्रुटितायुषः ।। ५४२ ।। अत्यन्तदुर्भगा मातुरप्युद्वेगविधायिनी । सा कालं गमयत्यन्यगृहे दुष्कर्म कुर्वती ।। ५४३ ।। एकस्मिन्नुत्सवेऽन्येद्युराढ्यबालकपाणिषु । ईक्षित्वा मोदकान् साऽपि ययाचे मातरं निजाम् । ।। ५४४ ।। दन्तैर्दन्तान् धर्षयन्ती, तामम्बाऽपीदमब्रवीत् । याचसे मोदकान् युक्तं, मोदकादी पिताऽपि ते ॥ ५४५ ।। यदि मोदकलिप्सुस्त्वं रज्जुमादाय गच्छ तत् । शैलमम्बरतिलकं, दारुभारकृते हले ! ।। ५४६ ।। करीषाग्निसोदरया, दह्यमाना तया गिरा । रुदती रञ्जुमादाय, तं पर्वतमियाय सा ।। ५४७ ॥ अद्रेस्तस्य शिरस्यैकरात्रिकप्रतिमाजुषः । केवलज्ञानमुत्पेदे, युगन्धरमुनेस्तदा ।। ५४८ ।। तस्याऽथ सन्निहिताभिर्देवताभिः प्रचक्रमे । तत्कालं केवलज्ञानमहिमाख्यो महोत्सवः ।। ५४९ ।। पर्वतासन्ननगरग्रामवासी ततो जनः । अहंपूर्विकया तत्र, तं वन्दितुमुपाययौ ।। ५५० ।। तत्र यान्तं जनं दृष्टवा, नानाभरणभूषितम् । तस्थौ निर्नामिका चित्रलिखितेवाऽतिविस्मयात् ।। ५५१ ।। सा परम्परया ज्ञात्वा, लोकागमनकारणम् । दारुभारं दुःखभारमिवोत्सृज्याऽचलत् ततः ।। ५५२ ।। जन सह तेनाऽथ, साऽपि निर्नामिका गिरिम् । तमारुरोह तीर्थानि सर्वसाधारणानि यत् ।। ५५३ ।। कल्पपादपवत् पादौ, मन्यमाना महामुनेः । सा सानन्दमवन्दिष्ट, मतिर्गत्यनुसारिणी ।। ५५४ ॥ लोकमाह्लादयन्नब्द, इव गम्भीरया गिरा । मुनिर्विश्वजनीनोऽथ, विदधे धर्मदेशनाम् ।। ५५५ । आमसूत्रव्यूतखट्वाधिरोहणसहोदरम् । भवभूमौ निपाताय, नृणां विषयसेवनम् ।। ५५६ ।। १ घनिबालककरेषु । २ मोदकभक्षकः । तत्रायान्तं आ ।। ३ विश्वहितकर्ता । ४ अपक्वसूत्रव्यूतखट्वाधिरोहणसदृशम् ।
प्रथमं पर्व
प्रथमः
सर्गः
श्रीऋषभस्वामि
चरितम् ।
पूर्वभव
चरिते
पञ्चमो ललिताङ्गदेव
भवः ।
।। ४० ।।