________________
त्रिषष्टिशलाका
प्रथमं पर्व प्रथमः
पुरुषचरिते
सर्गः
॥३९॥
श्रीऋषभस्वामिचरितम् ।
मा विषीद महाभाग !, भव स्वस्थोऽधुना ननु । मया मृगयमाणेन, प्राप्ताऽस्ति भवतः प्रिया ।। ५२७ ।। पृथिव्यां धातकीखण्डे, प्राग्विदेहेषु विद्यते । नन्दिग्रामे गृहपतिर्नागिलो नाम दुर्गतः ।। ५२८ ।। पूरणायोदरस्याऽपि, भ्रमन् प्रेत इवाऽन्वहम् । क्षुधितस्तृषितः शेते, चोत्तिष्ठति च तादृशः ॥ ५२९ ॥ दारिद्र्यस्य बुभुक्षेव, तस्याऽस्ति सहचारिणी । नागश्रीरित्यभिधया, मन्दभाग्यशिरोमणिः ॥५३० ॥ उपर्युपरि कन्यां षट्, कन्यास्तत्राऽस्य जज्ञिरे । पौमनस्येव पिटका, अधोऽधः पिटकं तनौ ।। ५३१ ॥ प्रकृत्या बहुभक्षिण्यः, कुरूपा विश्वगर्हिताः । बभूवस्तास्तयोः पुत्र्यो, ग्रामशूकरयोरिव ।। ५३२ ।। आपन्नसत्त्वा पल्यासीत्, पुनरप्यस्य कालतः । प्रायेण हि दरिद्वाणां, शीघ्रगर्भभूतः स्त्रियः ।। ५३३ ।। सोऽथैतच्चिन्तयामास, कस्येदं कर्मणः फलम् ? । यदहं मर्त्यलोकेऽपि, प्राप्नोमि नरकव्यथाम् ।। ५३४ ॥ अमुना जन्मसिद्धन, दुश्चिकित्सेन भूयसा । उपदेहिकयेव दुर्दारिद्रयेणाऽस्मि विद्रुतः ।। ५३५ ।। इतः साक्षादलक्ष्मीभिरिव निर्लक्ष्ममूर्तिभिः । कन्यकाभिः पूर्वजन्मवैरिणीभिरिवाऽर्दितः ।। ५३६ ॥ अधुना यदि भूयोऽपि, दुहिता प्रसविष्यते । तदा देशान्तरं यास्याम्युज्झित्वैतत् कुटुम्बकम् ।। ५३७ ।। एवं चिन्तां प्रपन्नस्य, सुषुवे तस्य गेहिनी । कर्णसूचीप्रवेशाभं, सुताजन्म च सोऽशृणोत् ।। ५३८ ।। ययावूर्ध्वमुखः सोऽथ, कुटुम्बं प्रोज्झ्य नागिलः । पर्यस्य भारं सहसा, बलीवर्द इवाऽधमः ॥ ५३९ ॥ तस्याः प्रसवजे दुःखे, पतिप्रवसनव्यथा । समजायत तत्कालं, क्षारक्षेप इव क्षते ॥ ५४० ॥ नामाऽपि तस्या नागश्रीर्नाकार्षीदतिदुःखिता । निर्नामिकेति नाम्नाऽसौ, ततो लोकैरुदीरिता ।। ५४१ ॥ १ दरिद्री । २ पामायुक्तस्य । ३ निस्फोयः । ४ सगर्भा । ५ उघेइ' इति भाषायाम् । * दुहितृभिः । ६ त्यक्त्वा ।
पूर्वभवचरिते पञ्चमो ललितादेव भवः ।
॥३९ ।।