________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३८॥
परस्परमभूच्चेतस्तयोर्लीनं निरन्तरम् । निगडेनेव रागेण, निबिडेन नियन्त्रितम् ।। ५१३ ।। रममाणस्तया सार्द्धमच्छिन्नप्रेमसौरभः । गमयामास भूयांसं, कालमेकां कलामिव ।। ५१४ ।। दलं वृक्षादिव दिवस्ततोऽच्योष्ट स्वयम्प्रभा । आयुःकर्मणि हि क्षीणे, नेन्द्रोऽपि स्थातुमीश्वरः ।। ५१५ ।। || आक्रान्तः पर्वतेनेव, कुलिशेनेव ताडितः । प्रियाच्यवनदुःखेन, ललिताङ्गोऽथ मूञ्छितः ।। ५१६ ॥ लब्धसंज्ञः क्षणेनाऽथ, विललाप मुहुर्मुहुः । विमानं श्रीप्रभमपि, प्रतिशब्दैर्विलापयन् ।। ५१७ ॥ प्राप नोपवने प्रीति, न वाप्यामपि निर्ववौ । क्रीडाशैलेऽपि न स्वस्थानानन्दन्नन्दनेऽपि सः ।। ५१८ ॥ हा प्रिये ! हा प्रिये ! क्वाऽसि, क्वाऽसीति विलपन्नसौ । स्वयम्प्रभामयं विश्वं, पश्यन् बभ्राम सर्वतः ॥५१९ ॥ इतश्च स्वामिमरणोत्पन्नवैराग्यवासनः । स्वयम्बुद्धोऽप्यात्तदीक्षः, श्रीसिद्धाचार्यसन्निधौ ।। ५२० ।। सुचिरं निरतीचारं, पालयित्वा व्रतं सुधीः । ऐशाने दृढधर्माख्य, इन्द्रसामानिकोऽभवत् ।। ५२१ ॥
॥सन्दानितकम् ॥ स पूर्वभवसम्बन्धाद्, बन्धुवत् प्रेमबन्धुरः । आश्वासयितुमित्यूचे, ललिताङ्गमुदारधीः ।। ५२२ ।। किं मुह्यसि महासत्त्व !, महिलामात्रहेतवे ? । धीराः प्राणावसानेऽपि, न हि यान्तीदृशीं दशाम् ।। ५२३ ।। ललिताङ्गोऽप्युवाचेति, बन्धो ! किमिदमुच्यते ? । प्राणान्तः सुसहः कान्ताविरहस्तु सुदुःसहः ।। ५२४ ।। एकैव ननु संसारे, सारं सारङ्गलोचना । यां विना नूनमीदृश्योऽप्यसाराः सर्वसम्पदः ।। ५२५ ।। तदुःखदुःखितः सोऽपीशानसामानिकः सुरः । दत्त्वोपयोगमवधिज्ञानाज्ज्ञात्वाऽब्रवीदिति ।। ५२६ ॥ १ शृङलया । २ शान्तिं जगाम । स्वस्थो, नानन्दन्नन्द ।
पूर्वभवचरिते पञ्चमो ललितादेव भवः ।
॥ ३८ ॥