________________
RRB
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व प्रथमः
सर्गः
॥३७॥
श्रीऋषभस्वामिचरितम् ।
नितान्तसुकुमाराम्रिपाणिनेत्राननच्छलात् । लावण्यसिन्धुमध्यस्थारविन्दवनिकामिव ।। ४९९ ॥ आनुपूर्वेण पृथुलौ, वृत्तावूरू च बिभ्रती । न्यासीकृताविव निजौ, तूणीरौ पुष्पधन्वना ।। ५०० ।। राजमानां नितम्बेन, विपुलेनाऽच्छवाससा । कलहंसकुलालीढपुलिनेनेव निम्नगाम् ।। ५०१ ।। राजन्तीमुदरेणाऽतिक्षामेण पविमध्यवत् । पीनोन्नतकुचद्वन्द्वभारप्रोद्वहनादिव ।। ५०२ ॥ भान्ती रेखात्रयाङ्केण, कण्ठेन कलनादिना । कम्बुनेव स्मरनृपस्योच्चैर्विजयशंसिना ।। ५०३ ।। अधरीकृतबिम्बाभ्यामधराभ्यां चकासतीम् । नासया नेत्रनलिननाललीलाजुषाऽपि च ।। ५०४ ॥ अर्कीकृतपार्वणेन्दुलक्ष्मीसर्वस्वहारिणा । हारिणा चित्तहरणी, स्निग्धगण्डालिकेन च ।। ५०५ ।। कर्णी रतिपतेः क्रीडादोलालीलामलिम्लुचौ । भ्रूयुगं च स्मरधनुर्यष्टिश्रीहारि बिभ्रतीम् ।। ५०६ ।। शोभमानां कबर्या च, स्निग्धकालकान्तया । वदनाम्भोरुहस्याऽनुसारिण्येवाऽलिमालया ।। ५०७ ॥ सर्वाङ्गीणं च विन्यस्तरत्नाभरणसम्पदा । जङ्गमीभावभाक्कल्पलताविभ्रमहारिणीम् ।। ५०८ ।। मनोज्ञमुखपद्माभिरप्सरोभिः सहस्रशः । परितः परिकरितां, सरिद्भिरिव जाह्नवीम् ।। ५०९ ॥ देवी स्वयम्प्रभा नाम, प्रभाभग्नाचिरप्रभाम् । प्रभूतप्रमदस्तत्र, ददर्श श्रीप्रभप्रभुः ।। ५१० ॥
॥द्वादशभिः कुलकम् ।। कृताभ्युत्थानया दूरात्, स्नेहातिशययुक्तया । तया सहकपर्यङ्के, निषसादाऽमराग्रणीः ।। ५११ ॥ एकत्र च निषण्णौ तौ, चकासामासतुर्भृशम् । एकालवालमध्यस्थौ, लताविटपिनाविव ॥ ५१२ ॥ १ इषुधी । २ वज्रमध्यवत् । ३ मनोहरेण । ४ केशपाशेन । ५ सर्वाङ्गेषु । ६ विद्युतम् ।
पूर्वभवचरिते पञ्चमो ललिताङ्गदेव भवः ।
HASHASIRSINHASABHARASHTRA
॥३७॥