________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। ३६ ।।
तवैते रम्यरमणीरमणीयतराङ्गणाः । मनः प्रसादजननाः, प्रसादा रत्ननिर्मिताः ।। ४८४ ॥ अमूर्वाप्यो रत्नमय्यः, सौवर्णकमलाकराः । तवाक्रीडनगाश्चैते, रत्नकाञ्चनसानवः ।। ४८५ ।। एताः स्वच्छजलाः क्रीडानद्यः सद्यः प्रमोददाः । क्रीडोद्यानानि चैतानि नित्यपुष्पफलानि ते ।। ४८६ ।। सदः संदनमेतत् ते, स्वर्णमाणिक्यनिर्मितम् । आदित्यमण्डलमिव द्युतिद्योतितदिङ्मुखम् ॥ ४८७ ॥ एताश्च चामरादर्शतालवृन्ताकपाणयः । सर्ववारं वारनार्यैस्त्वत्सेवैकमहोत्सवाः ॥ ४८८ ।। अयं चतुर्विधातोद्यचतुरः पुरतस्तव । गन्धर्ववर्गः सङ्गीतकृते सज्जोऽवतिष्ठते ।। ४८९ ।। दत्तोपयोगस्तत्कालमवधिज्ञानतस्ततः । स दिनं ह्यस्तनमिव, पूर्वजन्मैवमस्मरत् ।। ४९० ।। विद्याधरपतिः सोऽहं, स्वयम्बुद्धेन मन्त्रिणा । धर्ममित्रेण जैनेन्द्रं धर्ममस्मि विबोधितः ।। ४९१ ।। प्रव्रज्यां प्रतिपन्नोऽहं तदैवाऽनशनं व्यधाम् । आसदं तत्फलमिदमहो ! धर्मस्य वैभवम् ।। ४९२ ।। इति स्मृत्वा समुत्थाय, दत्तबाहुः स वेत्रिणा । सिंहासनमलञ्चके, स्फूर्जज्जयजयध्वनिः ।। ४९३ ।। ततोऽभिषिषिचे देवैरवीज्यत च चामरैः । अगीयत च गन्धर्वै, कलेमङ्गलगीतिभिः ॥। ४९४ ।। समुत्थाय ततोऽप्येष भक्तिभावितमानसः । गत्वा चैत्येऽर्हत्प्रतिमाः, पूजयामास शाश्वतीः ।। ४९५ ।। देवैर्ग्रामत्रयोद्गारमधुरे गीतमङ्गले । क्रियमाणे जिनाधीशं सोऽस्तावीद् विविधैः स्तवैः ।। ४९६ ॥ ततोऽसौ वाचयामास, पुस्तकान् ज्ञानदीपकान् । आनर्च माणवस्तम्भस्थितान्यस्थीनि चाऽर्हताम् ॥ ४९७ ॥ अथ दिव्यातपत्रेण, पार्वर्णेन्दुसनाभिना । भ्राजिष्णुर्धार्यमाणेन, स लीलासदनं ययौ ।। ४९८ ।। १ क्रीडापर्वताः । २ सभागृहम् । ३ व्यजनम् । ४ वेश्याः । ५ मधुरमङ्गलगीतैः । ६ पूर्णिमाचन्द्रतुल्येन ।
प्रथमं पर्व
प्रथमः
सर्गः श्रीऋषभस्वामि
चरितम् ।
पूर्वभव
चरिते पञ्चमो ललिताङ्गदेव
भवः ।
।। ३६ ।।