________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः
सर्गः
।। ५१ ॥
श्रीऋषभस्वामिचरितम् ।
आत्तव्रतस्य तातस्य, सत्पथेनाऽनुगामिनौ । एतावेवौरसौ पुत्रौ, पुत्रः क्रीत इवाऽस्म्यहम् ।। ७०८ ॥ एवं स्थितेऽपि मे किञ्चिन्नायुक्तं प्रव्रजामि चेत् । प्रव्रज्या दीपिकेवाऽऽत्तमात्राऽपि हि तमश्छिदे ॥७०९।। तदिदानी पुरी गत्वा, दत्त्वा राज्यं च सूनवे । हंसस्येव गतिं हंसः, श्रयिष्येऽहं पितुर्गतिम् ।। ७१०॥ संवादिन्या व्रतादानेऽनुस्यूतमनसेव सः । सहितः श्रीमतीदेव्या, प्राप लोहार्गलं पुरम् ।। ७११ ॥ राज्यलुब्धस्तदा त्वस्य, पुत्रः प्रकृतिमण्डलम् । धनैरभेदयत् तैर्हि, किं न भेद्यं जलैरिव ? ।। ७१२ ॥ प्रातः स्वयं व्रतादानं, राज्यदानं सुतस्य च । चिन्तयन्तौ सुषुपतुर्निशायां श्रीमतीनृपौ ।। ७१३ ॥ विषधूपं व्यधात् पुत्रस्तयोस्तु सुखसुप्तयोः । कस्तं निरोद्धमीशः स्याद्, गृहादग्निमिवोत्थितम् ? ॥७१४ ॥ तद्भूपधूमैरधिकैर्जीवाकर्षाङटैरिव । घ्राणप्रविष्टैस्तौ सद्यो, दम्पती मृत्युमापतुः ।।७१५ ।। अथोत्तरकुरुष्वेतावुत्पन्नौ युग्मरूपिणी । एकचिन्ताविपन्नानां, गतिरेका हि जायते ।। ७१६ ।। क्षेत्रानुरूपमायुश्च, पूरयित्वा तथा युतौ । तौ विपद्योदपद्येतां, सौधर्मे स्नेहलौ सुरौ ।। ७१७ ॥ वज्रजङ्घस्य जीवोऽथ, भोगान् भुक्त्वा निरन्तरम् । आयुःक्षयात् ततोऽच्योष्ट, हिमग्रन्थिरिवाऽऽतपात् ।।७१८ ॥ जम्बूद्वीपे विदेहेषु, पुरे क्षितिप्रतिष्ठते । वैद्यस्य सुविधेः पुत्रः, स जीवानन्द इत्यभूत् ।। ७१९ ।। तदैव तस्मिन्नगरे, चत्वारोऽन्येऽपि दारकाः । उदपद्यन्त धर्मस्य, भेदा इव वपुर्जुषः ॥ ७२० ॥ अभूत् तत्रैक ईशानचन्द्रस्य पृथिवीपतेः । भार्यायां कनकवत्यां, सूनुर्नाम्ना महीधरः ॥७२१ ॥ मन्त्रिणोऽन्यः शुनाशीरनाम्नः पल्यामजायत । लक्ष्म्यां श्रीनन्दन इव, सुबुद्धिर्नाम नन्दनः ॥ ७२२ ॥ अन्यः सागरदत्तस्य, सार्थवाहपतेरभूत् । भार्यायामभयमत्यां, पूर्णभद्राभिधः सुतः ।।७२३ ॥
पूर्वभवचरिते नवमो जीवा
नन्द
भवः ।
॥५१॥