________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ५२ ॥
I
चतुर्थश्च समुत्पेदे, पल्यां श्रेष्ठिधनस्य तु । शीलमत्यां शीलपुञ्ज, इव नाम्ना गुणाकरः ।। ७२४ ।। प्रयत्नाद् रक्ष्यमाणास्ते, बालधारैर्दिवानिशम् । समं ववृधिरे सैर्वेऽप्यङ्गेऽङ्गावयवा इव ।। ७२५ ॥ सहपांशुक्रीडिनस्ते, जगृहुः सममेव हि । कलाकलापं सकलं, मेघाम्भः पादपा इव ।। ७२६ ।। तत्रैव नगरे जीवः, श्रीमत्या अपि सोऽभवत् । सूनुरीश्वरदत्तस्य, श्रेष्ठिनः केशवाभिधः ।। ७२७ ॥ समं च मिलितास्तेन, ते षमित्राणि जज्ञिरे । अवियुक्ताः करणान्तःकरणानीव सर्वदा ॥ ७२८ ॥ विदाञ्चकाराऽऽयुर्वेदं, जीवानन्दोऽपि पैतृकम् । अष्टाङ्गमौषधीश्चाऽपि, रसवीर्यविपाकतः ।। ७२९ ।। ऐरावण इवेभेषु, ग्रहेष्विव दिवाकरः । अभूत् प्राज्ञो निरवद्यविद्यो वैद्येषु सोऽग्रणीः ।। ७३० ।। सौदर्या इव सम्भूय, रममाणाः सदैव ते । कदाचित् कस्यचिद् वेश्मन्यन्योऽन्यस्याऽवतस्थिरे ।। ७३१ ।। एकदा वैद्यपुत्रस्य, जीवानन्दस्य मन्दिरे । एतेषां तिष्ठतामेकः, साधुर्भिक्षार्थमाययौ ॥ ७३२ ॥ पृथ्वीपालस्य राज्ञः स, सूनुर्नाम्ना गुणाकरः । राज्यं मलमिवोत्सृज्य, शमसाम्राज्यमाददे ।। ७३३ ॥ सरिदोघ इव ग्रीष्मातपेन तपसा कृशः । कृमिकुष्ठाभिभूतश्च, सोऽकालापथ्यभोजनात् ॥ ७३४ ॥ सर्वाङ्गीणं कृमिकुष्ठाधिष्ठितोऽपि स भेषजम् । ययाचे न क्वचित् कायानपेक्षा हि मुमुक्षवः ॥ ७३५ ।। गोमूत्रिकाविधानेन, गेहाद् गेहं परिभ्रमन् । षष्ठस्य पारणे दृष्टः, स तैर्निजगृहाङ्गणे ।। ७३६ ।। महीधरकुमारेण, स किञ्चित् परिहासिना । जीवानन्दो निजगदे, जगदेकभिषक् ततः ।। ७३७ ।। अस्ति व्याधेः परिज्ञानं ज्ञानमस्त्यौषधस्य च । चिकित्साकौशलं चाऽस्ति, नाऽस्ति वः केवलं कृपा ॥ ७३८ ॥ ★ सर्वेऽप्यनङ्गाव । १ करणानि इन्द्रियाणि, अन्तःकरणं मनः, एतान्यपि षट्सक्ल्याकानि । २ गोमूत्रधारावद्वकत्वेन ।
प्रथमं पर्व
प्रथमः
सर्गः श्रीऋषभ
स्वामी
चरितम् ।
पूर्वभवचरिते नवमो
जीवानन्द भवः ।
॥ ५२ ॥