________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ५३ ॥
सदा संस्तुतमप्यातमपि प्रार्थकमप्यहो! । वेश्या इव विना द्रव्यं, यूयं नाऽक्ष्णाऽपि पश्यथ ।।७३९ ॥ तथाऽप्येकान्ततो नाऽर्थलुब्धैर्भाव्यं विवेकिभिः । धर्ममयुररीकृत्य, कृत्यं क्वाऽपि चिकित्सितम् ।।७४०॥ चिकित्सायां निदाने च, धिक् ते सर्व परिश्रमम् । आयातमीदृशं पात्रं, सरोगं यदुपेक्षसे ।।७४१ ।। जीवानन्दोऽपि विज्ञानरत्नरत्नाकरोऽब्रवीत् । साधु साधु महाभाग!, त्वया विस्मापितोऽस्म्यहम् ॥७४२ ।। ब्राह्मणजातिरद्विथे, वणिग्जातिरवञ्चकः । प्रियजातिरनीालुः, शरीरी च निरामयः ।। ७४३ ॥ विद्वान् धनी गुण्यगर्वः, स्त्रीजनश्चाऽपचापलः । राजपुत्रः सुचरित्रः, प्रायेण न हि दृश्यते ॥ ७४४ ॥
॥सन्दानितकम् ॥ चिकित्सनीय एवाऽहो ! महामुनिरयं मया । औषधानामसामग्री, किन्तु यात्यन्तरायताम् ।। ७४५ ।। तत्रैकं लक्षपाकं मे, तैलमस्तीह नाऽस्ति तु । गोशीर्षचन्दनं रत्नकम्बलश्चाऽऽनयन्तु तत् ।। ७४६ ॥ आनेष्यामो वयमिति, प्रोच्य पञ्चाऽपि तत्क्षणम् । ते ययुर्विपणिश्रेणी, स्वस्थानं सोऽप्यगान्मुनिः ॥७४७ ॥ रत्नकम्बल-गोशीर्षे, मूल्यमादाय यच्छ नः । इत्युक्तस्तैर्वणिग्वृद्धस्ते ददानोऽब्रवीदिदम् ।। ७४८ ॥ दीनाराणां लक्षमेकं, प्रत्येकं मूल्यमेतयोः । गृह्णीत ब्रूत वस्तुभ्यां, किमाभ्यां वः प्रयोजनम् ? ॥७४९ ।। तेऽप्यूचुर्मूल्यमादत्स्व, दत्स्व गोशीर्षकम्बलौ । एताभ्यां हि महासाधुचिकित्सा नः प्रयोजनम् ।।७५० ।। श्रुत्वा तद्वचनं श्रेष्ठी, विस्मयोत्तानलोचनः । रोमाञ्चसूचितानन्दश्चेतसैवमचिन्तयत् ।। ७५१ ॥ क्वैषां यौवनमुन्मादप्रमादमदनोन्मदम् ? । मतिर्विवेकवसतिर्वयोवृद्धोचिता क्व च ? |७५२ ॥ १ परिचितम् ।२ विजत्वम् ।
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते नवमो जीवानन्द
भवः।
॥ ५३॥