________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामी चरितम् ।
।।५४ ।।
जराजर्जरकायाणां, मादृशां योग्यमीदृशम् । कुर्वन्त्यमी यत् तदहोऽदम्यैर्भारोऽयमुह्यते ॥७५३ ॥ चिन्तयित्वेति सोऽवोचदिमौ गोशीर्षकम्बलौ । गृह्येतामस्तु वो भद्रं, भद्रा ! द्रव्येण चाऽस्तु वः ॥७५४ ।। अनयोर्वस्तुनोर्मूल्यमादास्ये धर्ममक्षयम् । धर्मभागीकृतः साधु, युष्माभिः सोदरैरिव ।। ७५५ ।। श्रेष्ठश्रेष्ठोऽर्पयित्वाऽथ, तेषां गोशीर्षकम्बलौ । भावितात्मा प्रवव्राज, वव्राज च परं पदम् ।। ७५६ ।। आदायौषधसामग्रीमग्रिमास्ते महात्मनाम् । जीवानन्देन सहिताः, प्रययुर्येन तं मुनिम् ।।७५७ ॥ न्यग्रोधपादपस्याऽधस्तत्पादमिव निश्चलम् । कायोत्सर्गेण तिष्ठन्तं, तं नत्वा ते बभाषिरे ॥७५८ ॥ धर्मविघ्नं करिष्यामश्चिकित्साकर्मणाऽद्य वः । भगवन्ननुजानीहि, पुण्येनाऽनुगृहाण नः ॥७५९ ॥ मुनिमेवमनुज्ञाप्य, तेऽथ गोमृतकं नवम् । आनिन्युर्विचिकित्सन्ति, न हि जातु चिकित्सकाः ॥७६० ।। मुनेः प्रत्यङ्गमभ्यङ्गं, तेन तैलेन ते व्यधुः । उद्यानमिव कुयाम्भः, शरीरान्तस्तदानशे ।। ७६१ ॥ तैलेनाऽत्युष्णवीर्येण, जज्ञे निःसंज्ञको मुनिः । योग्यमुग्रस्य हि व्याधेः, शान्त्यामत्युग्रमौषधम् ।।७६२ ।। आकुलास्तेन तैलेन, कृमयस्तत्कलेवरात् । तस्थुर्बहिर्जलेनेव, वामलूरात् पिपीलिकाः ॥७६३ ॥ जीवानन्दस्ततो रत्नकम्बलेन समन्ततः । मुनिमाच्छादयामास, शशीव ज्योत्स्नया नभः ॥७६४ ॥ कृमयोऽथ न्यलीयन्त, शीतत्वाद् रत्नकम्बले । शैवले ग्रीष्ममध्याह्नतप्ताः शफेरिका इव ॥७६५ ।। मन्दमन्दोलयन् वैद्यः, कम्बलं गोशवोपरि । कृमीनपातयदहो!, सर्वत्राऽद्रोहिता सताम् ।। ७६६ ।। जन्तुजीवातुभिर्जीवानन्दोऽमृतरसैरिव । मुनिमाश्वासयामास, ततो गोशीर्षचन्दनैः ॥ ७६७ ॥ १ वत्सतरैः । * युर्यत्र तं ।२ वटवृक्षस्य । ३ सारणिजलम् । ४ वल्मीकात् । ५ मत्स्याः । ६ जन्तुजीवनप्रदैः ।
पूर्वभवचरिते नवमो जीवानन्द भवः ।
|| ५४॥