________________
त्रिषष्टिशलाकापुरुषचरिते
॥ ५५ ॥
कृमयस्त्वग्गता एव, ह्यमी निरसरन्निति । तैलाभ्यङ्ग, मुनेभूयो, जीवानन्दोऽथ निर्ममे ॥७६८ ॥ तेनाऽभ्यङ्गेन भूयोऽपि, भूयांसो मांसगा अपि । निरीयुः कृमयो वातेनोदानेन रसा इव ।। ७६९ ॥ तथैवाच्छादने रत्नकम्बले कृमयोऽलगन् । अलक्तकपटे दध्नोऽतिद्वयहस्येव जन्तवः ।। ७७० ॥ तस्मिन् गोमृतके भूयस्तान् कृमीन् रत्नकम्बलात् । तथैवाऽपातयदहो!, भिषजो बुद्धिकौशलम् ।। ७७१ ॥ गोशीर्षचन्दनरसासारैराप्याययन्मुनिम् । जीवानन्दोऽम्भोद इव, वृष्ट्या ग्रीष्मादितं द्विपम् ।। ७७२ ।। भूयोऽभ्यङ्गेन निरयुः, कृमयोऽस्थिगता अपि । न वज्रपञ्जरेऽप्यस्ति, स्थानं रुष्टे बलीयसि ।। ७७३ ।। रत्लकम्बललग्नांस्तान, पुनर्गोमृतके कृमीन् । स चिक्षेपाऽधमं स्थानमधमानां हि युज्यते ।। ७७४ ।। गोशीर्षचन्दनरसैर्विलिलेप मुनि पुनः । भक्त्या परमया देवमिव सद्यो भिषग्वरः ।। ७७५ ।। संरोपणौषधैर्जातनवत्वक् कान्तिमान् मुनिः । चकासामास निर्मुष्टकाञ्चनप्रतिमेव सः ।। ७७६ ।। तैर्भक्तिदक्षैः क्षमितः, स क्षमाक्षमणस्ततः । ययौ विहर्तुमन्यत्र, नास्था क्वाऽपि हि तादृशाम् ।। ७७७ ।।। ततोऽवशिष्टगोशीर्षचन्दनं रत्नकम्बलम् । तत्र विक्रीय जगृहुस्ते स्वर्ण बुद्धिशालिनः ।। ७७८ ।। तेन स्वर्णेन ते चैत्यं, सुवर्णेन स्वकेन च । कारयामासुरुत्तुङ्ग, मेरुशृङ्गमिवाऽऽहृतम् ।। ७७९ ।। जिना मर्चयन्तस्ते, गुरूपासनतत्पराः । कर्मवत् क्षपयामासुः, कञ्चित् कालं महाशयाः ।।७८० ।। ते षडप्येकदा जातसंवेगाः साधुसन्निधौ । धीमन्तो जगूहुर्दीक्षा, मर्त्यजन्मतरोः फलम् ।।७८१ ॥ ते विजहुः पुरि पुरो, ग्रामे ग्रामाद् वने वनात् । तिष्ठन्तो नियतं कालं, राशौ राशेरिव ग्रहाः ।। ७८२ ।। * कपुटे । १ अतिक्रान्तदिनद्वयस्य । + निरीयुः । सरोहणौ । श्रवण ।
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते नवमो जीवानन्द भवः ।
|| ५५॥