________________
त्रिषष्टिशलाका
पुरुषचरिते
1148 11
शाणैरिव तपोभिस्ते, तूर्यषष्ठाष्टमादिभिः । चारित्ररत्नं विदधुर्निर्मलं निर्मलादपि ।। ७८३ ।। अपीडयन्तो दातारं, प्राणधारणकारणात् । पारणे जगृहुर्भिक्षां, ते मधुव्रतवृत्तयः ।। ७८४ ।। अवलम्बितधैर्यास्ते, क्षुत्पिपासातपादिकान् । परीषहान् सहन्ते स्म, प्रहारान् सुभटा इव ।। ७८५ ।। सेनाङ्गानीव चत्वारि, मोहराजस्य सर्वतः । चतुरोऽपि कषायांस्ते, जिग्युरस्त्रैः क्षमादिभिः ।। ७८६ ॥ कृत्वा संलेखनामादौ, द्रव्यतो भावतश्च ते । भेजिरेऽनशनं कर्मशैलनिर्नाशनाशनिम् ॥ ७८७ ॥ समाधिभाजस्ते पञ्चपरमेष्ठिनमस्क्रियाम् । स्मरन्तस्तत्यजुर्देहं न हि मोहो महात्मनाम् ॥ ७८८ ॥ षडपि द्वादशे कल्पेऽच्युतनामनि तेऽभवन् । शक्रसामानिकास्तादृग्, न सामान्यफलं तपः ।। ७८९ ॥ आयुस्ते पूरयित्वा द्वाविंशतिं सागरोपमान् । ततोऽच्यवन्ताऽच्यवनं न हि मोक्षं विना क्वचित् ॥ ७९० ॥ जम्बूद्वीपाभिधे द्वीपे विदेहेषु च पूर्वतः । विजये पुष्कलावत्यां महाम्भोनिधिसन्निधौ । ७९१ ॥ नगर्यां पुण्डरीकिण्यां, वज्रसेनस्य भूपतेः । धारिण्यां जज्ञिरे राज्ञ्यां, तेषु पञ्च क्रमात् सुताः ।। ७९२ ।। तत्र वैद्यस्य जीवोऽभूद्, वज्रनाभोऽभिधानतः । चतुर्दशमहास्वप्नसूचितः प्रथमः सुतः ।। ७९३ ।। राजपुत्रस्य जीवस्तु, द्वितीयो बाहुसंज्ञया । मन्त्रिपुत्रस्य जीवोऽपि सुबाहुरिति नामतः ।। ७९४ ॥ नाम्ना पीठमहापीठ, श्रेष्ठिसार्थेशपुत्रयोः । जीवौ जीवः केशवस्य, सुयशा राजपुत्रकः ।। ७९५ ।। सुयशाः शिश्रिये वज्रनाभं बाल्यात् प्रभृत्यपि । स्नेहः प्राग्भवसम्बद्धो, ह्यनुबध्नाति बन्धुताम् ।। ७९६ ।। ऽवर्द्धन्त क्रमाद् राजसूनवः सुयशाः स च । नरभावमिवापन्नाः, षड्वर्षधरपर्वताः ।। ७९७ ।।
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभ
स्वामि
चरितम् ।
पूर्वभव
चरिते
दशमो देव
भवः,
एकादशो
वज्रनाभ
भवश्च ।
||५६||