________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ ५७॥
वाहयन्तो मुहुर्वाहान्, वाह्याल्यां ते महौजसः । बिभराञ्चक्रिरेऽनेकरूपरेवन्तविभ्रमम् ॥७९८ ॥ कलाभ्यासे कलाचार्योऽभूत् तेषां साक्षिमात्रकः । प्रादुर्भवन्ति महता, स्वयमेव यतो गुणाः ॥७९९ ।। शैलानपि शिलातोलं, तेषां तोलयतां भुजैः । अपूर्यत बलक्रीडा, न केनाऽपि मनागपि ।। ८०० ॥ अथ लोकान्तिकैर्देवैरन्तिकीभूय भूपतिः । वज्रसेनो व्यज्ञपीदं, स्वामिस्तीर्थ प्रवर्त्तय ।। ८०१ ।। वज्रसेनस्ततो वज्रनाभं वजिसमौजसम् । राज्ये निवेशयामास, स्वमिवाऽपरमूर्त्तितः ।। ८०२ ॥ सांवत्सरिकदानेन, प्रीणयामास मेदिनीम् । अम्भोधर इवाऽम्भोभिर्वज्रसेननृपस्ततः ।। ८०३ ॥ देवासुरनृदेवैश्च, कृतनिष्क्रमणोत्सवः । गत्वोद्यानमलञ्चक्रे, स व्योमेव हिमद्युतिः ।। ८०४ ।। स्वयम्बुद्धः स भगवांस्तत्र दीक्षामुपाददे । उदपद्यत च ज्ञानं, मनःपर्ययसंज्ञकम् ।। ८०५ ॥ आत्मारामः साम्यधनो, निर्ममो निष्परिग्रहः । प्रावर्त्तत विहाँ क्ष्मां, स नानाभिग्रहः प्रभुः ।। ८०६ ।। भ्रातृभ्यो वज्रनाभोऽपि प्रत्येक विषयान् ददौ । लोकपालैरिवेन्द्रोऽभात्, स च तैर्नित्यसेवकैः ।। ८०७ ॥ क्षत्ताऽभूत् तस्य सुयशा, अरुणस्तरणेरिव । आत्मानुरूपः कर्त्तव्यः, सारथिर्हि महारथैः ।। ८०८ ॥ उत्पेदे वज्रसेनस्य, घातिकर्ममलक्षयात् । उद्द्योतो दर्पणस्येव, केवलज्ञानमुज्ज्वलम् ।। ८०९ ॥ तदा च वज्रनाभस्य, प्रविवेश महीपतेः । चक्रमायुधशालायामधरीकृतभास्करम् ॥ ८१०॥ त्रयोदश च रत्नानि, तस्याऽऽसन्नपराण्यपि । सम्पद्धि पुण्यमानेनाऽम्भोमानेनेव पद्मिनी ।। ८११ ।। नवाऽपि निधयस्तस्याऽभवन् सेवाविधायिनः । आकृष्टाः प्रबलैः पुण्यैर्गन्धैरिव मधुव्रताः ॥ ८१२ ।। १ सूर्यपुत्रः ।२ चन्द्रः ।३ देशान् । ४ सारथिः ।
AHARASHARASHARASHRSHASRANS
पूर्वभवचरिते एकादशो वजनाभभवः।
।। ५७॥