________________
त्रिषष्टि
शलाका
पुरुषचरि
।। ५८ ।।
सोऽशेषं साधयामास, विजयं पुष्कलावतीम् । चक्रे च चक्रवर्त्तित्वाभिषेकोऽस्याऽखिलैर्नृपैः ।। ८१३ ।। भुञ्जानस्याऽप्यस्य भोगान्, धर्मे धीरधिकाधिकम् । वयसो वर्द्धमानस्य, स्पर्द्धयेव व्यवर्द्धत ।। ८१४ ॥ क्रमादस्य प्रभवन्त्या, भववैराग्यसम्पदा । बंहिष्ठा धर्मधीरासीद्, वल्लीवाऽऽवालवारिणा ॥। ८१५ ।। एकदा विहरंस्तत्र, वज्रसेनजिनेश्वरः । परमानन्दजननः, साक्षान्मोक्ष इवाऽऽययौ ।। ८१६ ।। स्वामी समवसरणे, ततश्चैत्यतरोस्तले । कर्णामृतप्रपां धर्मदेशनामुपचक्रमे ।। ८१७ ।। सबन्धुर्वज्रनाभोऽपि, जगद्बन्धोर्जिनप्रभोः । राजहंस इवाऽऽभ्यागादुपपादाम्बुजं मुदा ।। ८१८ ॥ स त्रिः प्रदक्षिणीकृत्य, प्रणम्य च जगत्पतिम् । अनुजन्मेव शक्रस्य, पृष्ठतः समुपाविशत् ।। ८१९ ।। स बोधिमुक्ताजननीं, भव्यमानसशुक्तिषु । देशनां स्वातिवृष्ट्याभां शुश्राव श्रावकग्रणीः ।। ८२० ।। गिरं भगवतः शृण्वन्, मृगो गीतिमिवोन्मनाः । हर्षाद् विचिन्तायामास स एवं भूमिवासवः ।। ८२१ ।। असावपारः संसारः, सरस्वानिव दुस्तरः । तस्याऽपि तारकस्तातो, दिष्ट्याऽसौ विष्टपाधिपः ।। ८२२ ।। अन्धकार इवाऽत्यन्तं, मोहोऽन्धङ्करणो नृणाम् । तस्याऽयमभितो भेत्ता, भगवान् भानुमानिव ॥ ८२३ ॥ चिरकालभवश्चाऽयं, महाव्याधिरिवोल्वणः । अचिकित्स्यः कर्मराशिस्तातस्तस्य चिकित्सकः ।। ८२४ ।। यद्वा किमन्यत् सर्वेषां, दुःखानामेष नाशनः । सुखानामेकजननः, करुणामृतसागरः ।। ८२५ ।। स्वामिन्येवंविधेऽप्यस्त्रिहो ! मोहप्रमद्वरैः । अस्माभिरात्मनैवाऽऽत्मा, वञ्चितोऽसौ कियच्चिरम् ? || ८२६ ॥ चक्रवर्ती ततो धर्मचक्रवर्त्तिनमानतः । इति विज्ञपयामास, भक्तिगद्गदया गिरा ।। ८२७ ॥
१ आलवालः । २ स्वातिनक्षत्रवृष्टितुल्याम् । ३ समुद्रः ।
प्रथमं पर्व
प्रथमः सर्गः श्रीऋषभ
स्वामिचरितम् ।
पूर्वभव
चरिते
एकादशो
वज्रनाभ
भवः ।
।। ५८ ।।