________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ ५९ ॥
अर्थप्रसाधनपरैर्नीतिशास्त्रैश्चिरं मम । मतिः कदर्थिता नाथ !, क्षेत्रभूः कुशिकैरिव ।। ८२८ ॥ तथा विषयलोलेन, नित्यं नेपथ्यकर्मभिः । अयमात्मा नटेनेव, चिरं विनटितो मया ।। ८२९ ।। इदं हि मम साम्राज्यमर्थकामनिबन्धनम् । चिन्त्यते यस्तु धर्मोऽत्र, स स्यात् पापानुबन्धकः ।। ८३० ॥ तातस्य पुत्रो भूत्वाऽपि, भवाम्भोधौ भ्रमामि चेत् । तत् कः पुरुषकारः स्यादन्यसाधारणस्य मे ? ।। ८३१ ।। अपालयमिदं राज्यं, युष्मद्दत्तमहं यथा । तथा संयमसाम्राज्यं, पालयिष्यामि देहि मे ।। ८३२ ।। कृत्वा च पुत्रसाद् राज्यं, निजान्वयनभोरवि । व्रतं भगवतः पार्थे, प्रपेदे चक्रवर्त्यथ ।। ८३३ ।। बाह्वादयोऽपि जगृहुस्तत्सोदर्यास्तदा व्रतम् । पित्रा ज्येष्ठेन चोपात्तं, तद्धि तेषां क्रमागतम् ।। ८३४ ।। सुयशाः सारथिः सोऽपि, पादान्ते धर्मसारथेः । अनुस्वामि प्रवव्राज, भृत्याः स्वाम्यनुगामिनः ।। ८३५ ।। श्रुतसागरपारीणो, वज्रनाभोऽभवत् क्रमात् । प्रत्यक्षा द्वादशाङ्गीव, जङ्गमैकाङ्गतां गता ।। ८३६ ।। एकादशानयाः पारीणा, जाता बाहादयोऽपि ते । क्षयोपशमवैचित्र्याच्चित्रा हि श्रुतसम्पदः ।। ८३७ ।। तीर्थकृत्पादसेवायास्तपसो दुश्चरस्य च । असन्तुष्टाः सदाऽभूवंस्ते सन्तोषधना अपि ।। ८३८ ॥ ते नित्यं तीर्थकृद्वाणीपीयूषरसपायिनः । अपि मासोपवासादितपसा नैव चक्लमुः ।। ८३९ ।। भगवान् वज्रसेनोऽपि, शुक्लध्यानं श्रितोऽन्तिमम् । निर्वाणं प्राप गीर्वाणप्रपञ्चितमहोत्सवम् ।। ८४० ।। सनाभिरिव धर्मस्य, वृतो व्रतसनाभिभिः । मुनिभिर्वज्रनाभोऽपि, विजहार वसुन्धराम् ।। ८४१ ।। स्वामिना वज्रनाभेन, बाह्लाद्याः स च सारथिः । सनाथा जज्ञिरे पञ्चेन्द्रियाणीवाऽन्तरात्मना ।। ८४२ ॥ १ दर्भः । * दुष्करस्य । + सेनाभि । २ सहोदरः । ३ व्रतसहितैः ।
पूर्वभवचरिते एकादशो वजनाभभवः ।
॥ ५९॥