________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। ६० ।।
तेषां योगप्रभावेण, सर्वाः खेलादिलब्धयः । औषध्य इव शैलानामाविरासन् शशित्विषा ।। ८४३ ।। तेषां श्लेष्मलवेनाऽपि संश्लिष्टं कुष्ठिनो वपुः । कोटिवेधरसेनेव ताम्रराशिः सुवर्ण्यभूत् ।। ८४४ ॥ कर्णनेत्रादिभूरङ्गभूश्च तेषामभून्मलः । कस्तूरिकापरिमलो, रोगघ्नः सर्वरोगिणाम् ।। ८४५ ।। तेषां वपुः परिस्पर्शमात्रादपि शरीरिणः । सरुजो नीरुजोऽभूवन्, सुधाम्भः स्नपनादिव ।। ८४६ ।। तदङ्गसङ्गादम्भोदमुक्तं नद्यादिवाह्यपि । सर्वरोगान् पयोऽहार्षीत्, तमांसीवांऽशुमन्महः ।। ८४७ ।। विषादिदोषाः प्राणश्यंस्तदङ्गस्पर्शिवायुना । गन्धसिन्धुरदानाम्भोगन्धेनेवाऽन्यसिन्धुराः ।। ८४८ ॥ विषसम्पृक्तमन्नादि, तेषां पात्रे मुखेऽपि वा । सम्प्रविष्टं सुधाकुण्ड, इव निर्विषतामगात् ।। ८४९ ॥ वचनश्रवणात् तेषां, विषं मन्त्राक्षरादिव । बाधा महाविषव्याधिबाधितस्याऽप्यपासरत् ।। ८५० । नखाः केशारदाश्चान्यदपि तेषां शरीरजम् । भेजे भेषजतां सर्व, मुक्तात्वं शुक्तिवारिवत् ।। ८५१ ।। आसन्नणीयसीं मूर्त्तिं तथा ते कर्त्तुमीश्वराः । यथा सञ्चरितुमलं सूचीरन्ध्रेऽपि तन्तुवत् ।। ८५२ ।। वपुर्महत्तरीकर्त्तु, शक्तिस्तेषां बभूव सा । यया सुमेरुशैलोऽपि, जानुदध्नो व्यधीयत ।। ८५३ ॥ तेषां वपुर्लघीयस्त्वसामर्थ्यं तदजायत ! समुल्लङ्घ तद् येन, मारुतस्याऽपि लाघवम् ।। ८५४ ।। वपुर्गरिमशक्तिश्च, वज्रादप्यतिशायिनी । साऽभूत् तेषां न या सह्या, शक्राद्यैस्त्रिदशैरपि ।। ८५५ ।। प्राप्तिशक्तिरभूत् तेषां भूस्थानां स्पर्शनं यया । अङ्गुल्यग्रेण मेर्वग्रग्रहादेर्वृक्षपत्रवत् ।। ८५६ ।। साऽभूत् प्राकाम्यशक्तिश्च, भुवीवाऽप्सु यया गतिः । निमज्जनोन्मज्जने च, पानीय इव भुव्यपि ।। ८५७ ।। आसीत् तेषां तदैश्वर्यं, प्रभवन्ति स्म येन ते । चक्रभृन्त्रिदशाधीशऋद्धिमाधातुमात्मनः ।। ८५८ ।।
प्रथमं पर्व
प्रथमः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
पूर्वभव
चरिते
एकादशी
वज्रनाभ
भवः ।
॥ ६० ॥