________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥६१ ॥
तेषां वशित्वसामर्थ्य, तदपूर्वमजायत । भेजिरे वशितां येन, स्वतन्त्राः क्रूरजन्तवः ॥ ८५९ ॥ तेषामप्रतिघातित्वशक्तिः साऽभूद् यया खलु । अद्रिमध्येऽपि निःसङ्गं, गमनं रन्ध्रमध्यवत् ।। ८६० ।। तदन्त नसामर्थ्यमभूत् तेषामनाहतम् । नभस्वतामिवाऽदृश्यरूपता येन सर्वताः ।। ८६१ ।। प्रावीण्य कामरूपित्वे, तत् तेषामुल्ललास च । अलं पूरयितुं लोकं, नानारूपैर्यथा निजैः ।। ८६२ ।। तेषामाविरभूदु बीजबुद्धिता सातिशायिनी । एकार्थबीजतोऽनेकार्थबीजानां प्ररोहिणी ।। ८६३ ।। ते कोष्ठबुद्धयोऽभूवन्, कोष्ठप्रक्षिप्तधान्यवत् । विना स्मरणमर्थानां, प्राक् श्रुतानां तथास्थितेः ॥ ८६४ ।।। आद्यादन्त्यान्मध्यमाद् वा, श्रुतादेकपदादपि । सर्वार्थग्रन्थबोधात् तेऽभूवन पदानुसारिणः ॥ ८६५ ॥ एकं वस्तु समुद्धृत्याऽन्तर्मुहूर्ताच्छुतोदधेः । अवगाहनसामर्थ्यात्, ते मनोबलिनोऽभवन् ॥८६६ ।। अन्तर्मुहूर्त्तमात्रेण, मातृकामात्रलीलया । गुणयन्तः श्रुतं सर्वमासन् वाग्बलिनश्च ते ।। ८६७ ।। प्रपद्यमानाः प्रतिमां, चिरकालमपि स्थिराम् । श्रमक्लमाभ्यां रहितास्ते कायबलिनोऽभवन् ॥ ८६८ ॥ अभूवन्नमृतक्षीरमध्वाज्यासविणश्च ते । पात्रस्थस्य कदन्नस्याऽप्यमृतादिरसागमात् ।। ८६९ ॥ दुःखार्दितेष्वमृतादिपरिणामाद् गिरां च ते । अमृतक्षीरमध्याज्यास्रविणः साधु जज्ञिरे ॥ ८७० ।। अन्नस्य पात्रपतितस्याऽल्पस्याऽप्यतिदानतः । अक्षयेणाऽक्षीणमहानसर्द्धयश्च तेऽभवन् ॥ ८७१ ।। तीर्थकृत्पर्षदीवाऽल्पदेशेऽपि प्राणिनां सुखम् । असङ्ख्यानां स्थितेरासंस्ते चाऽक्षीणमहालयाः ।। ८७२ ।। एकेनाऽपीन्द्रियेणाऽन्येन्द्रियार्थस्योपलम्भनात् । ते बभूवश्च सम्भिन्नस्रोतोलब्धिमहर्द्धयः ॥ ८७३ ।। जङ्घाचारणलब्धिश्च, तेषामजनि सा यया ।रुचकद्वीपमेकेनोत्पातेन प्राप्तुमीश्वराः ।। ८७४ ।।
पूर्वभवचरिते एकादशो वजनाभभवः ।
४
॥६१॥