________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥६२ ॥
SHAHARASHREENSHRESTHA
वलन्तो रुचकद्वीपादेकेनोत्पतनेन ते । नन्दीश्वरेऽलमायातुं, द्वितीयेन यतो गताः ।। ८७५ ॥ ते चोर्ध्वगत्यामेकेन, समुत्पतनकर्मणा । उद्यानं पाण्डकं गन्तुमलं मेरुशिरःस्थितम् ।। ८७६ ।। ततस्ते वलिता एकेनोत्पातेन तु नन्दनम् । अलं गन्तुं द्वितीयेन, प्रथमोत्पातभूमिकाम् ।। ८७७ ॥ ते विद्याचारणाऽऽप्तुमेकेनोत्पातकर्मणा । मानुषोत्तरमन्येन, द्वीपं नन्दीश्वरं क्षमाः ।। ८७८ ।। एकोत्पातात् ततश्चाप्तुं पूर्वोत्पातमहीतलम् । तिर्यग्यानक्रमेणोर्ध्वमप्यलं ते गतागते ।।८७९॥ आसीदाशीविर्द्धिश्च, निग्रहाऽनुग्रहक्षमा । तेषामन्या अप्यभूवन्, बहुलं बहुलब्धयः ।। ८८० ॥ लब्धीनामुपयोगं ते, जगूहुर्न कदाचन । मुमुक्षवो निराकाङ्क्षा, वस्तूषूपस्थितेष्वपि ॥ ८८१ ।। इतश्च तीर्थकृन्नामगोत्रकर्मार्जितं दृढम् । स्वामिना वज्रनाभेन, विंशत्या स्थानकैरिति ।। ८८२ ॥ तत्रेकमर्हतामहत्प्रतिमानां च पूजया । अवर्णवादव्याषेधैः, सद्भूतार्थस्तवैरपि ।। ८८३ ।। सिद्धानां सिद्धिस्थानेषु, प्रतिजागरणोत्सवैः । यथावस्थितसिद्धत्वकीर्तनाच्च द्वितीयकम् ।। ८८४ ॥ बालक-ग्लान-शैक्षादियतीनां यस्त्वनुग्रहः । प्रवचनस्य वात्सल्यं, स्थानकं तत् तृतीयकम् ।। ८८५ ।।
आहारौषधवस्त्रादिदानादञ्जलियोजनात् । गुरूणामतिवात्सल्यकरणं तु तुरीयकम् ।। ८८६ ॥ विंशत्यब्दपर्यायाणां, षष्टिवर्षायुषां तथा । समवायभृतां भक्तिः , स्थविराणां तु पञ्चमम् ।। ८८७ ॥ अर्थव्यपेक्षया स्वस्माद्, बहुश्रुतभृतां सदा । अन्नवस्त्रादिदानेन, षष्ठं वात्सल्यनिर्मितिः ॥ ८८८ ।। सुविकृष्टतपःकर्मनिर्माणानां तपस्विनाम् । भक्तिविश्रामणादानैर्वात्सल्यमिति सप्तमम् ।। ८८९ ।। द्वादशाङ्गे श्रुते प्रश्नवाचनादिभिरन्वहम् । सूत्राऽर्थोभयगो ज्ञानोपयोगो यस्तदष्टमम् ।। ८९० ॥
पूर्वभवचरिते एकादशो वजनाभभवः ।
॥ २॥