________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
।। ६३ ।।
शङ्कादिदोषरहितं, स्थैर्यादिगुणभूषितम् । शमादिलक्षणं सम्यग्दर्शनं नवमं पुनः ॥ ८९१ ॥ ज्ञानदर्शनचारित्रोपचारैश्च चतुर्विधः । कर्मणां विनयनतो, विनयो दशमं पुनः ।। ८९२ ॥ इच्छामिथ्याकरणादियोगेष्वावश्यकेष्वलम् । अतीचारपरीहारो, यत्नादेकादशं तु तत् ।। ८९३ ।। अहिंसादिसमित्यादिमूलोत्तरगुणेषु या । प्रवृत्तिर्निरतीचारा, स्थानकं द्वादशं तु तत् ।। ८९४ ।। शुभध्यानस्य करणं, क्षणे क्षणे लवे लवे । प्रमादपरिहारेण, स्थानमेतत् त्रयोदशम् ।। ८९५ ।। अनाबाधेन मनसो, वपुषश्च निरन्तरम् । यथाशक्ति तपःकर्म, स्थानमेतच्चतुर्दशम् ।। ८९६ ।। अन्नादीनां संविभागो, यथाशक्ति तपस्विषु । मनोवाक्कायशुद्ध्या यः, स्थानं पञ्चदशं हि तत् ।। ८९७ ।। आचार्यादीनां दशानां, भक्तपानाऽऽसनादिभिः । वैयावृत्यस्य करणं, स्थानकं षोडशं तु तत् ।। ८९८ ।। चतुर्विधस्य सङ्घस्य, सर्वापायनिषेधनात् । मनःसमाधिजननं, स्थानं सप्तदशं हि तत् ।। ८९९ ।। सूत्रस्याऽर्थस्योभयस्याऽप्यपूर्वस्य प्रयत्नतः । अन्वहं यदुपादानं, स्थानमष्टादशं तु तत् ।।९०० ।। श्रद्धानेनोद्भासनेनाऽवर्णवादच्छिदादिना । श्रुतज्ञानस्य भक्तिस्तत्, स्थानमेकोनविंशकम् ।। ९०१ ।। विद्यानिमित्तकवितावादधर्मकथादिभिः । प्रभावना शासनस्य, तद् विंशतितमं पुनः ।। ९०२ ।। अप्येकं तीर्थकृन्नामकर्मणो बन्धकारणम् । मध्यादेभ्यः स भगवान्, सर्वैरपि बबन्ध तत् ।। ९०३ ।। बाहुनाऽपि च साधूनां, वैयावृत्यं वितन्वता । चक्रवर्तिभोगफलं, कर्मोपार्जितमात्मनः ।। ९०४ ।। विश्रामणां महर्षीणां, कुर्वाणेन तपोजुषाम् । सुबाहुना बाहुबलं, लोकोत्तरमुपार्जितम् ।। ९०५ ।। अहो ! धन्याविमौ वैयावृत्य-विश्रामणाकरौ । इति बाहु-सुबाहू तौ, वज्रनाभस्तदाऽस्तवीत् ।। ९०६ ।।
पूर्वभवचरिते एकादशो वजनाभभवः ।
॥ ६३॥