________________
त्रिषष्टिशलाकापुरुषचरिते
तौ तु पीठ महापीठौ, पर्यचिन्तयतामिति । उपकारकरो यो हि, स एवेह प्रशस्यते ॥९०७ ।। आगमाध्ययनध्यानरतावनुपकारिणौ । को नौ प्रशंसत्वथवा, कार्यकद्वयको जनः ।। ९०८ ।। ताभ्यामनालोचयङ्ग्यामितीाकृतदुष्कृतम् । मायामिथ्यात्वयुक्ताभ्यां, कर्म स्त्रीत्वफलं कृतम् ।।९०९ ।। ते षडप्यनतीचारां, खङ्गधारासहोदराम् । प्रव्रज्यां पालयामासुः, पूर्वलक्षाश्चतुर्दश ।। ९१० ।।
संलेखनाद्वयपुरःसरमेकधीरास्ते पादपोपगमनानशनं प्रपद्य । सर्वार्थसिद्धिमधिगम्य दिवं त्रयस्त्रिशाब्ध्यायुषः सुरवराः षडपि ह्यभूवन् । ९११ ।।
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥६४ ॥
पूर्वभव
चरिते
द्वादशो देवभवः प्रथमसर्ग समाप्तिश्च ।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये Pm प्रथमे पर्वणि धनादिद्वादशभववर्णनो नाम
प्रथमः सर्गः ।
॥६४॥
*
*
*