________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।।६५ ॥
द्वितीयः सर्गः । इतश्च जम्बूद्वीपस्य, विदेहेष्वपरेषु पूः । नाम्नाऽपराजितेत्यस्ति, द्विषद्भिरपराजिता ।। १ ।। तस्यां वसुमतीनाथो, विक्रमाक्रान्तविष्टपः । ईशानचन्द्र इत्यासीदीशानेन्द्र इव श्रिया ।। २ ।। तत्र श्रेष्ठी श्रिया श्रेष्ठः, प्रष्ठो धर्मकशालिनाम् । नाम्ना चन्दनदासोऽभूज्जगदानन्दचन्दनः ॥३॥ जगतो नयनानन्दनिदानं तस्य नन्दनः । नाम्ना सागरचन्द्रोऽभूत्, सागरस्येव चन्द्रमाः ।। ४ ।। ऋजुशीलः सदैवाऽसौ, धर्मकर्मा विवेकवान् । नगरस्याऽखिलस्याऽपि, बभूव मुखमण्डनम् ।। ५ ।। सोऽन्यदेशानचन्द्रस्य, राज्ञो दर्शनहेतवे । सेवोपनतसामन्ताकुलं राजकुलं ययौ ।। ६ ।। स तदाऽऽसनताम्बूलदानादिप्रतिपत्तितः । महास्नेहेन ददृशे, पित्रेव पृथिवीभुजा ।। ७ ।। अत्रान्तरे पराभूतशतध्वनितया गिरा । राजद्वारे कश्चिदेत्याऽपाठीन्मङ्गलपाठकः ।। ८ ।। उद्यतोद्यानपालीव, त्वदुद्यानेऽद्य भूपते ! । सज्जीकृतानेकपुष्पा, वसन्तश्रीर्विजृम्भते ।। ९ ।। विकासिकुसुमामोदसुरभीकृतदिग्मुखम् । सम्भावय तदुद्यान, महेन्द्र इव नन्दनम् ।। १० ।। राजाऽप्याऽऽज्ञापयद् द्वाःस्थं, यत् प्रातरखिलैर्जनैः । गन्तव्यमस्मदुद्यानमेवमाघोष्यतां पुरे ॥ ११ ॥ त्वयाऽप्येतव्यमुद्यानमिति श्रेष्ठिसुतं नृपः । स्वयमादिशदेवं हि, प्रसन्नस्वामिलक्षणम् ।। १२ ॥ ततो राज्ञा विसृथेऽसौ, हृष्टः स्वावसथं ययौ । मित्रायाऽशोकदत्ताय, तां नृपाज्ञां जगाद च ।। १३ ॥ द्वितीयेऽह्नि ययौ राजाऽप्युद्यानं सपरिच्छदः । पौरलोकोऽप्यगात् तत्र, प्रजा राजानुयायिनी ।। १४ ।।
कुल
कराणामुत्पत्ति
॥६५॥
१ अग्रणीः । २ स्वावासम् । ३ सपरिवारः ।