________________
त्रिषष्टिशलाका
पुरुषचरिते
।। ६६ ।।
वसन्त इव मलयानिलेन श्रेष्ठिसूरपि । सुहृदाऽशोकदत्तेन, सहोद्यानं जगाम सः ॥ १५ ॥ पुष्पावचयसन्दर्भगीतनृत्यादिभिस्ततः । प्रवृत्तः क्रीडितुं लोकः, स्थितः कामस्य शासने ।। १६॥ स्थाने स्थाने कृतास्थानाः, पौराः क्रीडाविधायिनः । आवासितस्मरनृपस्कन्धावारधुरां दधुः ॥ १७ ॥ पदे पदे सम्प्रवृत्तगीतातोद्यमहाध्वनौ । जयायाऽन्येन्द्रियार्थानामिवाऽभ्यधिकमुत्थिते ।। १८ ।। प्रत्यासन्नादथैकस्मादकस्मात् तरुगह्वरात् । त्रायध्वं त्रायध्वमिति, त्रस्तस्त्रीध्वनिरुत्थितः ॥ १९ ॥ तया समाकृष्ट इव, गिरा कर्णप्रविष्टया । किमेतदिति सम्भ्रान्तः, सागरः समधावत ॥ २० ॥ श्रेष्ठिनः पूर्णभद्रस्य, कन्यकां प्रियदर्शनाम् । स बन्दिभिर्धृतां तत्राऽपश्यदेणी वृकैरिव ॥ २१ ॥ एकस्य बन्दिनो हस्तमामोट्याऽथाऽऽददे क्षुरीम् । श्रेष्ठिसूनुर्विषभृतो, ग्रीवां भङ्क्त्वा मणीमिव ॥ २२ ॥ तस्येति विक्रमं दृष्टवा, बन्दिनस्ते विदुद्रुवः । व्याघ्रा अपि पलायन्ते ज्वलज्ज्वलनदर्शनात् ॥ २३ ॥ इति सागरचन्द्रेण, बन्दिभ्यः प्रियदर्शना । एधोहारिभ्यो माकेन्दलतेव परिमोचिता ॥ २४ ॥ परोपकारव्यसनी, क एष पुरुषाग्रणीः । आगादिह समाकृष्थे, दिष्ट्या मद्भाग्यसम्पदा ? ।। २५ ।। स्मररूपाधरीकर्त्ता, भर्त्ता भाव्ययमेव मे । चिन्तयन्तीति स्वं धाम, जगाम प्रियदर्शना ॥ २६ ॥ अनुस्यूतामिव वहन्, हृदये प्रियदर्शनाम् । अशोकदत्तसहितः श्रेष्ठिपुत्रोऽभ्यगाद् गृहम् ।। २७ ।। अथ चन्दनदासेन, स परम्परयाऽखिलः । अवाबुध्यत वृत्तान्तः, केन छाद्येत तादृशम् ? ॥ २८ ॥ सदध्याविति युक्तोऽस्य, रागोऽधिप्रियदर्शनम् । अजर्यं पङ्कजिन्या हि राजहंसस्य युज्यते ॥ २९॥ १ हरिणीम् । २ वनश्वानैः । ३ सर्पस्य । ४ काष्ठहारिभ्यः । ५ आम्रलतेव । ६ सङ्गतिः ।
प्रथमं पर्व द्वितीयः
सर्गः श्रीऋषभ
स्वामि
चरितम् ।
कुल
कराणा
मुत्पत्ति
॥ ६६ ॥