________________
KA
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। ६७ ॥
इयमुद्भटताऽकारि, यत् तदा तन्न साम्प्रतम् । कार्य सपौरुषेणाऽपि, वणिजा न हि पौरुषम् ।।३० ।। सङ्गः किञ्च ऋजोरस्याऽशोकदत्तेन मायिना । न साधुर्जातु बदरीद्रुणेव कदलीतरोः ।। ३१ ।। विचिन्त्येति चिरं श्रेष्ठी, स समाहूय सागरम् । भद्रद्विपं निषादीव, साम्नाऽऽरभत शासितुम् ।। ३२।। सर्वशास्त्रानुसारेण, व्यवहारेण च स्वयम् । वत्स ! सम्यगभिज्ञोऽसि, तथाऽपि ज्ञाप्यसे मया ।। ३३ ।। वयं हि वणिजस्तात !, कलाकौशलजीविनः । अनुद्भटाऽऽचारवेषाः, सन्तो गर्यामहे न हि ।। ३४ ।। भवितव्यं यौवनेऽपि, भवद्भिर्गुढविक्रमैः । वणिजो लोकसामान्येऽप्यर्थे साशङ्कवृत्तयः ।। ३५ ।। सम्पदो विषयक्रीडा, दानं च च्छन्नमेव नः । अलं भवति शोभायै, शरीरमिव योषिताम् ।। ३६ ।। आत्मजातेरनुचितं, क्रियमाणं न शोभते । चरणे करभस्येव, बद्धं कनकनूपुरम् ।। ३७ ॥ ततो निजक्रमौचित्यव्यवहारपरायणैः । दातव्यः प्रहरो वत्स !, गुणानां सम्पदामिव ।। ३८ ।। त्याज्योऽसतां च संसर्गो, निसर्गानृजुचेतसाम् । सोऽलर्कविषवत् कालेनाऽपि यात्येव विक्रियाम् ॥३९ ॥ अयं चाऽशोकदत्तस्त्वां, मित्रं चित्रं तनूमिव । अवाप्तप्रसरो वत्स !, सर्वथा दूषयिष्यति ।। ४० ॥ मनस्यन्यद् वचस्यन्यत्, क्रियायामन्यदेव हि । गणिकाया इवाऽमुष्याऽत्यन्तमायाजुषः सदा ।। ४१ ।। आदरादुपदिश्यैवं, श्रेष्ठिश्रेष्ठे स्थिते सति । इति सागरचन्द्रोऽपि, चिन्तयामास चेतसि ।। ४२ ।। कन्याबन्दिव्यतिकरस्तातेन सकलोऽपि सः । विज्ञात इति मन्येऽहमुपदेशदिशाऽनया ।। ४३ ॥ असावशोकदत्तश्च, तातस्याऽभान्न सङ्गतः । मन्दभाग्यतया पुंसां, गुरवः स्युरनीदृशाः ॥ ४४ ।। १ सरलस्य । २ महामात्रः । ३ मृदुवचनेन । ४ उष्ट्रस्य । ५ हडयितश्वविषवत् । ६ श्वेतकुष्ठम् ।
कुलकराणा
मुत्पत्ति
|| ६७॥