________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः
सर्गः
श्रीऋषभस्वामिचरितम् ।
॥६८ ॥
भवत्वेवं तथाऽपीति, विमृश्य मनसि क्षणम् । ऊचे सागरचन्द्रोऽपि, प्रश्रयाश्रितया गिरा ॥ ४५ ॥ यदादिशति तातस्तत्, कर्तव्यं सूनुरस्मि ते । कृतं तेन कृतेनाऽपि, गुर्वाज्ञा यत्र लक्ष्यते ।। ४६ ।। किन्तु दैवादकाण्डेऽपि, कृत्यं तदुपतिष्ठते । नाऽऽलोचकालहरणं, सहते यन्मनागपि ।। ४७ ॥ आलोचं कुर्वतोऽत्येति, कालः कार्यस्य कस्यचित् । पर्ववेलेव जिह्मस्य, पादशौचं वितन्वतः ।। ४८ ।। ईदृशेऽप्यागते काले, प्राप्तेऽपि प्राणसंशये । तदेवाऽहं करिष्यामि, तव लाकरं न यत् ।। ४९ ।। तातेनाऽशोकदत्तस्य, यच्च तादृगुदीरितम् । तद्दोषेण न दोष्यस्मि, न गुणी तद्गुणेन वा ।। ५० ॥ यन्ममाऽशोकदत्तेन, मैत्री तत्रेति कारणम् । सहवासः सहपांशुक्रीडनं दर्शनं मुहुः ।। ५१ ।। समा जातिः समा विद्या, समं शीलं समं वयः । परोक्षेऽप्युपकारित्वं, सुखदुःखविभागिता ।। ५२ ।। अस्मिश्च कैतवमहं, न पश्यामि मनागपि । मृषा तातस्य कोऽप्याख्यत्, खलाः सर्वकषाः खलु ।। ५३ ।। अस्तु वा तादृशो मायाव्येष मे किं करिष्यति ? । एकत्र विनिवेशेऽपि, काचः काचो मणिर्मणिः ।। ५४ ।। इत्युक्तः सूनुना श्रेष्ठी, तमूचे बुद्धिमानसि । तथाऽपि ह्यवधातव्यं, दुर्लक्षा हि पराशयाः ।। ५५ ।। सोऽथ स्वसूनो वज्ञस्तदर्थ प्रियदर्शनाम् । शीलादिभिर्गुणैः पूर्णा, पूर्णभद्रादयाचत ।। ५६ ।। असावुपकृतिक्रीती, त्वत्सुतेन सुता मम । अग्रेऽपीति वदन् पूर्णभद्रोऽमन्यत तद्वचः ।। ५७ ।। ततः सागरचन्द्रस्य, प्रियदर्शनया सह । विवाहोऽकारि पितृभिः, शुभे लग्ने शुभे दिने ॥५८ ॥ १ विनयाश्रितया । २ विचारकालप्रतीक्षणम् । ३ गच्छति । ४ दीर्घसूत्रिणः । ५ सर्वक्षोभकारकाः । ६ उपकारक्रीता ।
कुलकराणामुत्पत्ति
॥ ६८॥