________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥६९
॥
विचिन्तिताया दुन्दुभ्याः, पतनेनेव तौ ततः । मनीषितविवाहेन, मुमुदाते वधूवरौ ।। ५९ ।। समानमानसतया, तयोरेकात्मनोरिव । परस्परमवर्द्धिष्ट, प्रीतिः सारसयोरिव ।। ६० ।। रेजे सागरचन्द्रेण, सा चन्द्रेणेव चन्द्रिका । सहोदयवती सौम्यदर्शना प्रियदर्शना ॥६१ ॥ तयोः शीलभृतो रूपवतोराजवशालिनोः । अनुरूपोऽभवद् योगश्चिराद् घटयतो विधेः ।। ६२ ।। अविस्रम्भो न जात्वासीदन्योऽन्यप्रत्ययात् तयोः । विपरीतं न शङ्कन्ते, कदाऽपि सरलाशयाः ॥६३ ॥ अथ सागरचन्द्रस्य, बहिर्गतवतो गृहे । अशोकदत्तोऽभ्यायासीदूचे च प्रियदर्शनाम् ।। ६४ ॥ श्रेष्ठिनो धनदत्तस्य, वध्वा मन्त्रयते रहः । नित्यं सागरचन्द्रो यत्, तत्र किं स्यात् प्रयोजनम् ? ॥६५॥ निसर्गऋज्वी साऽप्यूचे, जानात्येतत् सुहृत् तव । द्वितीयं हृदयं तस्य, त्वं वा जानासि सर्वदा ॥६६ ॥ रहःसूत्रितकार्याणि, महतां व्यवसायिनाम् । को जानात्यथ जानाति, स कथं कथयेद् गृहे ? ॥६७ ॥ उवाचाऽशोकदत्तोऽपि, त्वत्पतेर्यत् तया सह । मन्त्रे प्रयोजनं वेधि, तत् परं कथ्यते कथम् ? ॥६८॥ प्रियदर्शनया किं तदित्युक्तः सोऽब्रवीदिति । त्वया प्रयोजनं यन्मे, सुभ्रु ! तस्याऽपि तत् तया ॥ ६९ ॥ तद्भावाविज्ञया ऋज्वा, प्रियदर्शनया पुनः । मया प्रयोजनं ते किमित्युक्तः सोऽवदत् पुनः ॥ ७० ॥ पुंसो रसान्तरविदः, कस्य न स्यात् सचेतसः । त्वया प्रयोजनं सुभ्र !, तमेकं त्वत्प्रियं विना ।।७१ ॥ आकर्ण्य कर्णसूच्याभ, दुरीहासूचि तद्वचः । सकोपाऽधोमुखीभूय, सा साक्षेपमभाषत ॥७२ ।। रे निर्मर्याद ! पुस्खेट!, त्वयैतच्चिन्तितं कथम् ? चिन्तितं वा कथं तूक्तं ?, धिक् साहसमचेतसः ।।७३ ॥ १ मनोऽभीष्टविवाहेन । २ अविश्वासः ।३ स्वभावसरला । ४ कर्णसूचीसदृशम् । ५ हे पुरुषाधम ।
कुलकराणामुत्पत्ति
॥ ६९॥