________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ ७० ॥
किञ्च सम्भावयसि रे!, महात्मानं पति मम । आत्मानुरूपमेवैवं, धिक् त्वां मित्रमिषाद् द्विषम् ।। ७४ ॥ गच्छ मा तिष्ठ रे पाप!, पापं त्वदर्शनादपि । इत्याक्रुष्टस्तया शीघ्रं, स दस्युरिव निर्ययौ ।। ७५ ।। स गोहत्याकार इवाऽन्धकारमलिनाननः । विमनस्कः समागच्छन्, सागरेण व्यलोक्यत ॥७६ ॥ हे मित्र ! हेतुना केन, त्वमुद्विग्न इवेक्ष्यसे ? । इति सागरचन्द्रेण, सोऽप्रच्छि स्वच्छचेतसा ॥७७ ॥ ततः स मायाकूटाद्रिर्दीर्घ निःश्वासमुद्वमन् । विकूणिताधरः किञ्चिद्, दुष्टः कष्टादिवाऽवदत् ।। ७८ ॥ जाड्यहेतुमिव हिमक्ष्माभृदभ्यर्णवासिनाम् । संसारे वसतां भ्रातः !, पृच्छस्युद्वेगकारणम् ? ॥७९ ।। न यच्छादयितुं नाऽपि, प्रकाशयितुमिश्यते । तदस्थानव्रणमिव, किमपीहोपतिष्ठते ।। ८०॥ इत्युदित्वा स्थिते मायादर्शितासविलोचने । अशोकदत्ते सोऽमायश्चिन्तयामासिवानिति ॥ ८१ ॥ अहो ! असारः संसारः, पुंसां यत्रेदृशामपि । सन्देहपदमीक्षमकस्मादुपजायते ।। ८२ ।। अस्य धैर्यादवदतोऽप्यन्तरुद्वेग उच्चकैः । हुताश इव धूमेन, बलाद् बाष्पेण सूच्यते ।। ८३ ॥ चिन्तयित्वेति सुचिरं, सद्यस्तढुःखदुःखित । भूयः सागरचन्द्रस्तमित्युवाच सगद्गदम् ।। ८४ ।। अप्रकाश्यं न चेद् बन्धो !, तच्छंसोद्वेगकारणम् । दत्त्वा दुःखविभागं मे, स्तोकदुःखो भवाऽधुना ।। ८५ ।। अशोकदत्तोऽपीत्यूचे, मम प्राणसमे त्वयि । अन्यदप्यप्रकाश्यं न, वृत्तान्तोऽयं विशेषतः ॥८६ ।। इदं वयस्यो जानाति, सदाऽपि यदिहाऽङ्गना । अनर्थानां प्रसूर्दशिर्वरी तमसामिव ।। ८७ ।। सागरोऽपि जगादेवमाम किं नाम सम्प्रति । सङ्कटे न्यपतः कस्या, अप्युरग्या इव स्त्रियाः ? ।। ८८ ॥ * सागरे व । + प्यसदुद्वेग उ । १ अमावास्यारात्रिः । २ आम इति अङ्गीकारे ।
कुलकराणा
मुत्पत्ति
॥ ७० ॥