________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। ७१ ।।
प्रत्यूचेऽशोकदत्तोऽपि, नाटयन् कृत्रिमां त्रपाम् । असमञ्जसमूचे मां, चिरं हि प्रियदर्शना ।। ८९ ।। लज्जित्वा स्वयमप्येषा, कदाऽपि स्थास्यतीत्यहो ! । मया सलअं सावज्ञं, सेयत्कालमुपेक्षिता ॥ ९० ॥ दिने दिने परमसावसतीत्वोचितोक्तिभिः । मां वदन्ती न विरमत्यहो ! स्त्रीणामसद्ग्रहाः ।। ९१ ।। अद्य त्वावसथे युष्मदन्वेषणकृते गतः । बन्धो ! निरुद्धोऽस्मि तया, राक्षस्येव छलज्ञया ।। ९२ ।। तन्तुबन्धादिव करी, कथञ्चिदपि तद्ग्रहात् । आत्मानं मोचयित्वाऽहमिहाऽगममतिद्रुतम् ।। ९३ ।। ततश्चाऽचिन्तयमहं जीवन्तं मां न मोक्ष्यति । असाविति तदात्मानमद्य व्यापादयामि किम् ? ।। ९४ ।। यद्वा न मर्त्तुमुचितं, मन्मित्रस्य यदीदृशम् । कथयिष्यत्यन्यथाऽसौ, मत्परोक्षे तु तत्तथा ।। ९५ ।। अथवा कथयाम्येतत्, सर्वं स्वसुहृदः स्वयम् । यथाऽस्यां कृतविश्वासो नाऽपायमुपयात्यसौ ।। ९६ ।। नाsदोऽपि युक्तं यन्नास्या, मयाऽपूरि मनोरथः । दौः शील्यकथनेनाऽथ, क्षते क्षारं क्षिपामि किम् ? ॥ ९७ ॥ एवं विचिन्तयन्नत्र, त्वया दृष्टोऽस्मि सम्प्रति । उद्वेगकारणं चेदं मम जानीहि बान्धव ! ।। ९८ ।। इत्याकर्ण्य वचः पीतंहालाहल इव क्षणम् । निःस्पन्दः सागरोऽथाऽ भून्निवात इव सागरः ।। ९९॥ सागरो व्याजहारैवं, युज्यते योषितामिदम् । क्षारत्वमूषरमहीनिपानपयसामिव ॥ १०० ॥ आसादय विषादं मा, व्यवसाये शुभे भव । स्थातव्यं स्वास्थ्यमास्थाय स्मरणीयं न तद्वचः ।। १०१ ।। यादृशी तादृशी वाऽपि, साऽस्तु किं वस्तुतस्तया ? | माभून्मनोमलिनिमा, केवलं भ्रातरावयोः ।। १०२ ।। तेनैवमृजुना सोऽनुनीतः प्रमुमुदेऽधमः । सत्कारयन्ति ह्यात्मानं कृत्वाऽप्यागांसि मायिनः ।। १०३।। १ अयुक्तम् । २ पीतविषः । ३ मनोमालिन्यम् ।
-
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामि
चरितम् ।
कुल
कराणा मुत्पत्ति
।। ७१ ।।