________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः
सर्गः
श्रीऋषभस्वामिचरितम् ।
।। ७२ ॥
ततः प्रभृति निःस्नेहः, सागरः प्रियदर्शनाम् । सोद्वेगं धारयामास, रोगग्रस्तामिवाऽङ्गुलीम् ।। १०४ ॥ किन्तु तां वर्त्तयामासोपरोधात् प्राग्वदेव सः । वन्ध्याऽप्युन्मूल्यते नैव, लता या लालिता स्वयम् ।। १०५ ।। मत्कृतो माऽनयोर्भेदोऽभूदिति प्रियदर्शना । नाऽशोकदत्तवृत्तान्तं, तं प्रियाय न्यवेदयत् ।। १०६ ।। कारागाराय संसारं, मन्यमानोऽथ सागरः । ऋद्धि कृतार्थयामास, दीनादिषु नियोगतः ।। १०७ ।। कालेन पूरयित्वाऽऽयुः, सागरः प्रियदर्शना । अशोकदत्तश्च ययुः, कालधर्म त्रयोऽपि ते ।। १०८ ॥ जम्बूद्वीपस्य भरतक्षेत्रदक्षिणखण्डके । गङ्गासिन्ध्वन्तरस्याऽन्तर्भागे मध्येऽवसर्पिणी ।। १०९ ।। तृतीयारे पल्याष्टमांशशेषे युग्मरूपतः । ततः समुदपद्येतां, सागरप्रियदर्शने ।। ११० ।। ।। युग्मम् ।। भारतेषु च वर्षेषु, पञ्चस्वैरवतेष्विव । द्वादशारं कालचक्रं, हेतुः कालव्यवस्थितेः ।। १११ ।। कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः । अराः षडवसर्पिण्यां, एकान्तसुषमादयः ।। ११२ ।। तत्रैकान्तः सुषमारश्चतस्रः कोटिकोटयः । सागराणां सुषमा तु, तिस्रस्तत्कोटिकोटयः ।। ११३ ।। सुषमदुःषमा ते द्वे, दुःषमसुषमा पुनः । सैका सहस्रैर्वर्षाणां, द्विचत्वारिंशतोनिता ।। ११४ ।। एकविंशतिरब्दानां, सहस्राणि तु दुःषमा । एकान्तदुःषमाऽपि स्यात्, तावद्वर्षप्रमाणिका ।। ११५ ।। अरका अवसर्पिण्यां, य एते समुदीरिताः । उत्सर्पिण्यां त एव स्युः, प्रतिलोमक्रमेण तु ।। ११६ ।। तदेवमवसर्पिण्यामुत्सर्पिण्यां च मीलिताः । सागरोपमकोटीनां, कोटयः खलु विंशतिः ।। ११७ ।। तत्राऽरे प्रथमे माः, पल्यत्रितयजीविनः । गव्यूतत्रितयोच्छ्रायाश्चतुर्थदिनभोजिनः ।। ११८ ॥ चतुरस्रसुसंस्थानाः, सर्वलक्षणलक्षिताः । वज्रऋषभनाराचसंहननाः सदासुखाः ।। ११९ ॥
कुलकराणामुत्पत्ति
॥७२॥