________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥७३ ॥
अपक्रोधा गतमाना, निर्माया लोभवर्जिताः । सर्ववारं स्वभावेनाऽप्यधर्मपरिहारिणः ॥ १२० ।। प्रायच्छंस्तत्र तेषां तु, वाञ्छितानि दिवानिशम् । मद्यागाद्याः कल्पवृक्षा, दशोत्तरकुरुष्विव ।। १२१ ॥ स्वादुमद्यानि मद्याङ्गा, ददुः सद्योऽपि याचिताः । भाजनादीनि भृङ्गाश्च, तद्भाण्डागारिका इव ।। १२२ ।। तेनुस्तूर्याङ्गास्तूर्याणि, तूर्यत्रयकराणि तु । उद्द्योतमसमं दीपशिखा ज्योतिषिका अपि ।। १२३ ।। विचित्राणि तु चित्राङ्गा, माल्यानि समढौकयन् । सूदा इव चित्ररसा, भोज्यानि विविधानि तु ।। १२४ ।। यथेच्छमर्पयामासुर्मण्यङ्गा भूषणानि तु । गेहाकाराः सुगेहानि, गन्धर्वपुरवत् क्षणात् ।। १२५ ।। अभग्नेच्छमनग्रास्तु, वासांसि समपादयन् । एते प्रत्येकमन्यानप्यर्थान् ददुरनेकशः ।। १२६ ।। तदा च भूमयस्तत्र, स्वादवः शर्करा इव । सदा माधुर्यधुर्याणि, धुन्यादिषु पयांस्यपि ।। १२७ ।। अतिक्रामत्यरे तत्र, त्वायुःसंहननादिकम् । कल्पद्रुमप्रभावाश्च, न्यूनं न्यूनं शनैः शनैः ।। १२८ ।। द्वितीये त्वरके माः, पल्यद्वितयजीविनः । गव्यूतद्वितयोच्छ्रायास्तृतीयदिनभोजिनः ॥ १२९ ॥ किञ्चिन्यूनप्रभावाश्च, तत्र कल्पमहीरुहः । किञ्चिन्माधुर्यतो हीना, आपो भूशर्करा अपि ॥ १३०॥ अस्मिन्नप्यरके कालात्, पूर्वारक इवाऽखिलम् । न्यूनन्यूनतरं स्थौल्यं, स्तम्बेरमकरे यथा ॥ १३१ ॥ अरके तु तृतीयस्मिन्नेकपल्यायुषो नराः । एकगव्यूतकोच्छ्राया, द्वितीयदिनभोजिनः ।। १३२ ।। अस्मिन्नप्यरके प्राग्वत्, क्रामति न्यूनमेव हि । वपुरायु माधुर्य, कल्पद्रुमहिमाऽपि च ॥१३३।। पूर्वप्रभावरहिते, चतुर्थे त्वरके नराः । पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः ॥ १३४ ।। १ सर्वदा । २ रसवतीकारकाः । ३ नद्यादिषु । ४ हस्तिशुण्डायाम् ।
कुलकराणा
मुत्पत्ति
।। ७३॥