________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥७४ ।।
पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्रयाः । षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्रयाः ॥ १३५ ॥ एकान्तदुःखप्रचिता, उत्सर्पिण्यामपीदृशाः । पश्चानुपूर्व्या विज्ञेया, अरेषु किल षट्स्वपि ॥१३६ ॥ तृतीयारान्तजातत्वाद्, दैर्घ्य नवधनुःशतौ । पल्यदशमांशायुष्कावभूतां तौ तु युग्मिनौ ।। १३७ ।। वज्रऋषभनाराचसन्धिबन्धं वपुस्तयोः । समेन चतुरस्रेण, संस्थानेन परिष्कृतम् ।। १३८ ।। युग्मधर्मी स शुशुभे, जात्यजाम्बूनदद्युतिः । प्रियङ्गुवर्णया पत्न्या, सुमेरुरिव मेध्यया ॥ १३९ ॥ तत्रैवाऽशोकदत्तोऽपि, प्राग्जन्मकृतमायया । श्वेतवर्णश्चतुर्दन्तः, सुरदन्तीव दन्त्यभूत् ॥ १४० ॥ भ्राम्यतेतस्ततः स्वैरमन्येधुस्तेन दन्तिना । स युग्मधर्मी पुरतः, प्राग्जन्मसुहृदैक्ष्यत ॥ १४१ ॥ तद्दर्शनामृतासारस्फारीभूततनोस्ततः । बीजस्येवाऽङ्करस्तस्य, स्नेहः समुदपद्यत ।। १४२ ।। हस्तिना तेन हस्तेनाऽऽदायाऽऽलिङ्ग्य यथासुखम् । अनिच्छन्नपि स स्कन्धप्रदेशमधिरोपितः ।। १४३ ॥ अन्योऽन्यदर्शनाभ्यासाद्, द्वयोरपि तयोस्ततः । जज्ञे परुत्कृतस्येव, स्मरणं पूर्वजन्मनः ।। १४४ ।। चतुर्दन्तद्विपस्कन्धारूढं ददृशुरिन्द्रवत् । तमन्ये विस्मयोत्तानलोचना युग्मरूपिणः ॥ १४५ ॥ शकुन्देन्दुविमलं, गजमारूढ इत्यसौ । ततः प्रौच्यत मिथुनैर्नाम्ना विमलवाहनः ॥ १४६ ।। जातिस्मृत्या स नीतिज्ञो, विमलद्विपवाहनः । प्रकृत्या रूपवांश्चेति, जज्ञे सर्वजनाधिकः ।। १४७ ।। कालेन गच्छता तत्र, प्रभावः कल्पभूरुहाम् । मन्दीबभूव चारित्रभ्रष्टानां यतिनामिव ॥१४८ ॥ मद्याङ्गा विरसं मद्यमदुः स्तोकं विलम्बितम् । दुर्दैवेन परावृत्त्य समानीता इवाऽपरे ।। १४९ ।। १ सुवर्णकान्तिः । २ मेघमालया।
कुलकराणा
मुत्पत्ति
।। ७४॥