________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥७५ ॥
दीयतां मा दीयतां वेत्यामर्शविवशा इव । सविलम्बं भाजनानि, भृङ्गा अप्यर्थिता ददुः ।। १५० ॥ आतोद्यादि न तादृक्षं, तूर्याङ्गा अप्यसूत्रयन् । तिरस्कारसमाकृष्य, गन्धर्वा इव विष्टयः ।। १५१ ॥ अर्थ्यमाना अपि मुहुर्दीपज्योतिष्कभूरुहः । नोड्योतं तादृशं तेनुर्दिवा दीपशिखा इव ।। १५२ ।। चित्राङ्गा अपि माल्यादि, द्रुतमिच्छानुसारतः । न हि विश्राणयामासु त्या दुर्विनया इव ।। १५३ ।। भोज्यं चतुर्विधं चित्ररसं चित्ररसा अपि । प्राग्वन्नादुः क्षीयमाणदानेच्छा इव सैत्रिणः ।। १५४ ।। भूषणाद्यर्पयामासुर्न मण्यङ्गास्तथाविधम् । सम्पत्स्यते कथं भूय, इति चिन्ताकुला इव ॥१५५ ।। गेहाकारास्तु गेहानि, मन्दं मन्दं वितेनिरे । सत्काव्यानीव कवयो, मन्दव्युत्पत्तिशक्तयः ॥१५६ ।। अनग्ना अपि वस्त्राणि, स्खलितस्खलितं ददुः । क्रूरग्रहावग्रहिणो, वारि वारिधरा इव ।। १५७ ।। तादृक्कालानुभावेन, मिथुनानामजायत । ममत्वं कल्पवृक्षेषु, स्वदेहावयवेष्विव ।। १५८ ।। अन्येन स्वीकृतं कल्पवृक्षमन्यो यदाऽऽश्रयत् । महान् परिभवो ह्यासीत्, तदा स्वीकृतपूर्विणः ॥१५९ ।। तथापराभवं सोढुमसहास्ते परस्परम् । आत्माधिकं स्वामितया, चक्रुर्विमलवाहनम् ।। १६०॥ जातिस्मृत्या स नीतिज्ञो, युग्मिनां कल्पपादपान् । ददौ विभज्य स्थविरो, द्रविणं गोत्रिणामिव ॥ १६१ ॥ यो यस्तत्याज मर्यादां, परकल्पद्रुमेच्छया । आविश्वकार हाकारनीति तद्दण्डनाय सः ॥१६२ ।। हा त्वया दुष्कृतमिति, तस्य दण्डेन युग्मिनः । वार्धिवेलाजलानीव, मर्यादा नाऽतिचक्रमुः ।। १६३ ।। तेन हाकारदण्डेन, युग्मान्येवममंसत । वरं दण्डादिभिर्घातो, न हाकारतिरस्कृतिः ।। १६४ ॥ १ अरचयन् । २ ददुः । ३ दानशालाकारिणः । ४ शनिरविभौमादय अवृष्टिकारकः ।
कुल
कराणामुत्पत्ति
।। ७५॥