________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥७६ ।।
तस्याऽऽयुरवशेषे तु, वर्षार्द्धप्रमिते सति । भार्यायां चन्द्रयशसि, मिथुनं समजायत ।। १६५ ।। तौ स्त्रीपुंसावसंख्येयपूर्वायुष्कौ सुसंस्थिती । आद्यसंहननौ श्यामावष्टधन्वशतोच्छ्रयौ ।। १६६ ।। चक्षुष्मांश्चन्द्रकान्ता च, पितृभ्यां कल्पिताऽभिधौ । ववृधाते सहोद्भूतौ, लताविटपिनाविव ।। १६७ ॥ प्रपाल्य युग्मं षण्मासान्, जरारोगौ विना मृतः । सुपर्णककुमारेषूत्पेदे विमलवाहनः ।। १६८ ॥ तदैव च चन्द्रयशा, मृत्वा नागेष्वजायत । अस्तमीयुषि पीयूषकरे तिष्ठेन्न चन्द्रिका ।। १६९ ।। आत्मीयं पालयित्वाऽऽयुस्तत्र स्तम्बेरमोऽपि सः । प्राप नागकुमारत्वं, कालमाहात्म्यमीदृशम् ।। १७० ॥ हाकारदण्डनीत्यैव, चक्षुष्मानथ युग्मिनाम् । मर्यादां वर्त्तयामास, यथा विमलवाहनः ॥ १७१ ।। प्राप्ते च चरमे काले, चक्षुष्पच्चन्द्रकान्तयोः । यशस्वी च सुरूपा च, जज्ञाते युग्मरूपिणौ ।। १७२ ॥ तत्संहननसंस्थानवी न्यूनायुषौ मनाक् । कलयामासतुर्वृद्धि, वयोबुद्धी इव क्रमात् ।। १७३ ॥ सदा युग्मचरौ कान्तौ, सप्तधन्वशतोच्छ्रयौ । बिभराञ्चक्रतुर्की तौ तोरणस्तम्भविभ्रमम् ।। १७४ ।। कालेन पञ्चतां प्राप्य, चक्षुष्मानुदपद्यत । सुपर्णेष्वथ नागेषु, चन्द्रकान्ताऽपि तत्क्षणम् ॥ १७५ ॥ ततो यशस्वी पितृवन्मिथुनान्यखिलान्यपि । सलीलं पालयामास, गोपाल इव गाश्चिरम् ।। १७६ ।। अथोल्लचितुमारेभे, हाकारो मिथुनैः क्रमात् । स्फुरदन्तर्मदावस्थैरडशो वारणैरिव ।। १७७ ॥ चक्रे माकारदण्डं च, यशस्वी तानि शासितुम् । रोगे ह्येकौषधासाध्ये, देयमेवौषधान्तरम् ।। १७८ ॥ आगस्यल्पे नीतिमाद्यां, द्वितीयां मध्यमे पुनः । महीयसि द्वे अपि ते, स प्रायुक्त महामतिः ॥ १७९ ॥ १ चन्द्रे । * सार्धसप्त ।
कुलकराणा
मुत्पत्ति
।। ७६ ॥