________________
त्रिषष्टिशलाकापुरुषचरिते
RAHARA
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥७७॥
यशस्विनः सुरूपायाश्चाऽसम्पूर्णायुषोर्मनाक् । स्त्रीपुंसौ समजायेतां, सह धीविनयाविव ।। १८० ॥ ताभ्यां चन्द्रोज्ज्वलः पुत्रोऽभिचन्द्र इति कीर्तितः । प्रियङ्गुप्रतिरूपा तु, प्रतिरूपेति पुत्र्यपि ।। १८१ ॥ पितृतोऽल्पायुषौ सार्द्धषट्कार्मुकशतोच्छ्रयौ । शम्यश्वत्थाविव युतौ, क्रमाद् वृद्धिमुपेयतुः ।। १८२ ॥ सदैव शुशुभाते तौ, यथा मिलितवारिणौ । मन्दाकिनी-यमुनयोः, प्रवाहाविव पावनौ ।। १८३ ॥ पूर्णायुष्को यशस्वी चाऽब्धिकुमारेष्वजायत । सुरूपाऽप्यभवन्नागकुमारेषु तदैव तु ।। १८४ ।। पितेव चाऽभिचन्द्रोऽपि, सर्वान् युगलधर्मिणः । स्थित्वा तयैव नीतिभ्यां, ताभ्यामेवाऽशिषच्चिरम् ।। १८५ ।। ततो बहुलभूतेष्टाशर्वर्येव निशाकरः । प्रान्तकाले मिथुनकं, सुषुवे प्रतिरूपया ।। १८६ ॥ सूनोः प्रसेनजिदिति, पितृभ्यां नाम निर्ममे । चक्षुष्कान्तेति पुत्र्याश्च, कान्तेयं चक्षुषामिति ॥ १८७ ।। न्यूनायुषौ पितृभ्यां च, तमालश्यामलत्विषौ । सहितौ ववृधाते तौ, मुर्दुत्साहाविव क्रमात् ।। १८८ ॥ षट्कार्मुकशतोत्सेध, धारयन्तावुभावपि । विषुवद् वासरनिशे, इवाऽभूतां सर्मप्रमौ ॥ १८९ ॥ मृत्वाऽभिचन्द्रोऽप्युदधिकुमारेषूदपद्यत । प्रतिरूपा पुनर्नागकुमारेषु तदैव हि ।। १९० ॥ बभूव युग्मिनां नाथस्तथैवाऽथ प्रसेनजित् । प्रायो महात्मनां पुत्राः, स्युर्महात्मान एव हि ।। १९१ ।। हाकारनीतिं माकारनीतिं च व्यत्यलङ्घयन् । तदा युग्मानि कामार्ता, ड्रीमर्यादे इव क्रमात् ॥ १९२ ॥ अनाचारमहाभूतत्रासमन्त्राक्षरोपमाम् । धिक्कारनीतिमपरामकृताऽथ प्रसेनजित् ।।१९३ ।। नीतिभिस्तिसृभिस्ताभिः, स प्रयोगविचक्षणः । शशास सकलं लोकं, यतैस्त्रिभिरिव द्विपम् ।। १९४ ॥ * श्रीवि । १ शमीपिप्लवृक्षौ ।२ कृष्णचतुर्दशीरात्र्यैव । ३ हर्षोत्साहौ । + समप्रभौ।
कुलकराणा
मुत्पत्ति
S
॥ ७७॥
HRSHASKRE