________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयः
सर्गः
श्री ऋषभस्वामिचरितम् ।
॥७८ ॥
ततश्च पश्चिमे काले, किञ्चिदूनायुषौ स्वतः । चक्षुष्कान्ताऽपि सुषुवे, स्त्रीपुंसौ युग्मरूपिणौ ॥ १९५ ॥ तौ तु पञ्चाशदधिकपञ्चधन्वशतोच्छ्यौ । सहैव प्रापतुर्वृद्धि, वृक्षच्छाये इव क्रमात् ।। १९६ ॥ मरुदेव इति सूनुः, श्रीकान्तेति च नन्दना । तौ युग्मधर्मिणौ लोके, नाम्ना ख्यातिमुपेयतुः ।। १९७ ।। प्रियङ्गुवर्णया पल्या, मरुदेवः सुवर्णरुक् । शुशुमे नन्दनतरुश्रेण्येव कनकाचलः ॥ १९८ ॥ ततो द्वीपकुमारेषु, जज्ञे मृत्वा प्रसेनजित् । चक्षुष्कान्ता पुनर्नागकुमारेषु तदैव हि ॥ १९९ ।। नीतिक्रमेण तेनैव, सर्वान् युगलधर्मिणः । मरुदेवस्ततो देवान्, देवराज इवाऽन्वशात् ॥२०० ।। श्रीकान्तायाः प्रान्तकालेऽजायेतां युग्मधर्मिणौ । नाभिश्च मरुदेवा च, स्त्रीपुंसावभिधानतः ॥२०१॥ पञ्चविंशत्यभ्यधिकपञ्चधन्वशतोच्छ्रयौ । सहैव प्रापतुर्वृद्धि, तौ क्षमासंयमाविव ।। २०२ ।। मरुदेवा प्रियङ्गुश्री भिर्जाम्बूनदद्युतिः । पित्रोः सावर्ण्यतोऽभातां, तत्प्रेतिच्छन्दकाविव ॥२०३ ॥ सङ्ख्यातपूर्वप्रमितं, तयोरायुर्महात्मनोः । श्रीकान्तामरुदेवाभ्यां, मनागूनमभूत् किल ।। २०४ ।। विपद्य मरुदेवोऽथ, प्राप द्वीपकुमारताम् । श्रीकान्ताऽपि हि तत्कालमेव नागकुमारताम् ॥२०५ ॥ सप्तमोऽभूत् कुलकरो, नाभिस्तदनु युग्मिनाम् । तिसृभिर्नीतिभिस्तांश्च, यथावत् प्रशशास सः ॥२०६ ।। तदा तृतीयारशेषे, पूर्वलक्षेषु सङ्ख्यया । चतुरशीतौ सनवाशीतिपक्षेषु सत्स्विह ॥२०७ ॥ आषाढमासस्य पक्षे, प्रवृत्ते धवलेतरे । चतुर्थ्यामुत्तराषाढानक्षत्रस्थे निशाकरे ।। २०८ ॥ प्रपाल्याऽऽयुस्त्रयस्त्रिंशत्सागरोपमसम्मितम् । जीवः श्रीवज्रनाभस्य, च्युत्वा सर्वार्थसिद्धितः ।। २०९ ॥ १ इन्द्रः ।२ तत्प्रतिबिम्बभूतौ ।
RSSISTARREARSHABHARASHTRA
कुलकराणामुत्पत्तिः, मरुदेवायाः कुसौ प्रभोरवतरणं च ।
॥ ७८॥