________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः
सर्गः
श्रीऋषभस्वामिचरितम् ।
॥ ७९ ॥
श्रीनाभिपल्या उदरे, मरुदेव्या अवातरत् ।मानसात् सरसो हंस, इव मन्दाकिनीतटे ।। २१० ॥ तदा स्वामिन्यवतीर्णे, त्रैलोक्येऽपि शरीरिणाम् । दुःखच्छेदात् क्षणं सौख्यमुद्द्योतश्च महानभूत् ।।२११ ।। तत्राऽवतरयामिन्यां, वासागारे प्रसुप्तया । मरुदेव्या दशिरे, महास्वप्नाश्चतुर्दश ।। २१२ ॥ आदौ वृषः सितः पीनस्कन्धो दीर्घर्जुवालधिः । सस्वर्णकिङ्किणीमालः, शरन्मेघ इवोत्तडित् ।। २१३ ॥ दन्तिराजश्चतुर्दन्तः, श्वेतवर्णः क्रमोन्नतः । क्षरन्मदनदीरम्यः, कैलास इव जङ्गमः ॥२१४ ॥ पिङ्गाक्षो दीर्घरसनः, केसरी लोलकेसरः । पताकामिव शूरेषु, तन्वन्नुत्पुच्छनच्छलात् ।। २१५ ।। देवी च पद्मनिलया, पद्मसदृग्विलोचना । दिक्कु अरकरोत्क्षिप्तपूर्णकुम्भोपशोभिता ।। २१६ ॥ नानाविधामरतरुप्रसूनपरिगुम्फितम् । दाम प्रलम्बधन्वेव, ऋजुरोहितधन्वनः ।। २१७ ॥ निजाननप्रतिच्छन्दमिवाऽऽनन्दनिबन्धनम् । कान्तिपूरद्योतिताशामण्डलं चन्द्रमण्डलम् ।। २१८ ।। निशायामपि तत्कालं, वासरभ्रमकारकः । सर्वान्धकारच्छिदुरः, स्फुरड्युतिरहपतिः ॥२१९ ॥ किङ्किणीमालभारिण्या, प्रचलन्त्या पताकया । करीव कर्णतालेन, राजमानो महाध्वजः ॥ २२० । अम्भःकुम्भः शातकौम्भः, स्मेराम्भोजार्चिताननः । अम्भोधिमथनोद्गच्छत्सुधाकुम्भसहोदरः ।। २२१ ।। स्तोतुं तमाधमर्हन्तं, पद्मभृङ्गनिनादिभिः । अनेकवदनीभूत, इव पद्माकरो महान् ।। २२२ ।। भुव्यास्तीर्णशरन्मेघमालालीलामलिम्लुचैः । उद्वीचिनिचयैश्चेतोऽभिरामः क्षीरनीरधिः ।। २२३ ।। यत्रोषितोऽभूदु भगवान्, देवत्वे तदिवाऽऽगतम् । इहाऽपि पूर्वस्नेहेन, विमानममितद्युति ।। २२४ ।। १ लम्बसरलपुच्छः । * किङ्कणीमा ।२ आरूढधन्वनः । ३ सूर्यः । + किङ्कणी ।
मरुदेवायाश्चतुर्दशमहास्वप्नदर्शनम् ।
।। ७९ ॥