________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥८०॥
कुतोऽप्येकत्र मिलितस्तारकाणामिवोत्करः । रत्नपुओ महान् व्योम्नि, पुजीभूतामलद्युतिः ।। २२५ ॥ तेजस्विनां पदार्थानां, त्रैलोक्योदरवर्त्तिनाम् । सम्पिण्डितं तेज इव, निधूमोऽग्निर्मुखेऽविशत् ।। २२६ ॥ निशाविरामसमये, स्वामिनी मरुदेव्यपि । स्वप्नान्ते स्मयमानास्या, पद्मिनीव व्यबुध्यत ।। २२७ ।। असम्मान्तीं मुदमिवोद्गिरन्ती कोमलाक्षरैः । स्वप्नानकथयद् देवी, तांस्तथैवाऽऽशु नाभये ॥२२८ ॥ उत्तमस्ते कुलकरस्तनयो भवितेत्यथ । स्वार्जवस्याऽनुसारेण, नाभिः स्वप्नान् व्यचारयत् ।। २२९ ॥ स्वामिनः कुलकृन्मात्रसम्भावनमसाम्प्रतम् । इति कोपादिवेन्द्राणामकम्पन्ताऽऽसनान्यथ ।। २३०॥ किमित्यकस्मादस्माकमासनानां प्रकम्पनम् ? । इति दत्त्वोपयोगं तद्, विदाञ्चक्रुर्बिडौजसः ॥२३१ ॥ तत्कालं भगवन्मातुः स्वप्नार्थमभिशंसितुम् । सुहृदः कृतसङ्केता, इवेन्द्रास्तुल्यमाययुः ।। २३२ ॥ ततस्ते विनयान्मूर्ध्नि, घटिताञ्जलिकुड्मलाः । स्वप्नार्थ स्फुटयामासः, सूत्रं वृत्तिकृतो यथा ।। २३३ ।। भावी स्वामिनि ! पुत्रस्ते, स्वप्ने वृषभदर्शनात् । मोहपङ्कमग्नधर्मस्यन्दनोद्धरणक्षमः ।। २३४ ।। हस्तिदर्शनतो देवि!, तव सूनुर्भविष्यति । गरीयसामपि गुरुर्महास्थामैकधाम च ।। २३५ ।। भावी पुरुषसिंहस्ते, तनयः सिंहदर्शनात् । धीरः सर्वत्र निर्भीकः, शूरोऽस्खलितविक्रमः ।। २३६ ॥ यच्च श्रीददृशे तत्र, तनयः पुरुषोत्तमः । देवि ! त्रैलोक्यसाम्राज्यलक्ष्मीनाथो भविष्यति ।। २३७ ॥ स्वप्ने स्रग्दर्शनात् पुण्यदर्शने ! स्यात् तवाऽऽत्मजः । सर्वस्य जगतः स्रग्वच्छिरसोद्वाह्यशासनः ।। २३८ ।। जगन्मातस्त्वया यच्च, स्वप्ने पूर्णेन्दुरेक्ष्यत । तन्नेत्रानन्दनः कान्तो, नन्दनस्ते भविष्यति ।। २३९ ।। ईक्षाञ्चक्रे रविर्यच्च, तत्सूनुस्ते भविष्यति । मोहान्धकारविध्वंसाञ्जगदुद्द्योतकारकः ।। २४० ।।
इन्द्रेश्चतुर्दशमास्वप्नफलकथनम् ।
|| ८०॥