________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ ३४ ॥
सर्वसावधयोगाना, विरत्या सममेव सः । चक्रे चतुर्विधाहारप्रत्याख्यानं महामनाः ।। ४५६ ॥ असौ समाधिपीयूषह्रदमग्नो निरन्तरम् । अम्भोजिनीखण्ड इव, न हि मम्लौ मनागपि ।। ४५७ ।। भुआन इव भोज्यानि, पेयान्यपि पिबन्निव । सोऽक्षीणकान्तिरभवन्महासत्त्वशिरोमणिः ॥ ४५८ ।। समाहितः स्मरन् पञ्चपरमेष्ठिनमस्क्रियाम् । द्वाविंशतिदिनान् कृत्वाऽनशनं स व्यपद्यत ।। ४५९ ।। स स्वयं सम्भृतैः पुण्यैर्दिव्यैरिव तुरङ्गमैः । ऐशानकल्पं तत्कालमाससाद दुरासदम् ।। ४६० ।। विमाने श्रीप्रभेऽथोपपादे शयनसम्पुटे । विद्युत्पुञ्ज इवाऽम्भोदगर्भे समुदपादि सः । ४६१ ।। दिव्याकृतिः सुसंस्थानः, सप्तधातूज्झिताङ्गकः । शिरीषसुकुमाराङ्गः, कान्तिक्रान्तदिगन्तरः ।। ४६२ ।। वज्रकायो महोत्साहः, पुण्यलक्षणलक्षितः । कामरूपोऽवधिज्ञानी, सर्वविज्ञानपारगः ।। ४६३ ।। अणिमादिगुणोपेतो, निर्दोषोऽचिन्त्यवैभवः । ललिताङ्ग इति ख्यातः, स यथार्थाभिधोऽभवत् ।। ४६४ ॥ पादयो रत्नकटके, कटिसूत्रं कटीतटे । हस्तयो कङ्कणद्वन्द्वं, भुजयोरङ्गदद्वयम् ।। ४६५ ॥ वक्षःस्थले हारयष्टिः, कण्ठे ग्रैवेयकं तथा । कुण्डले कर्णलतयोः, सक्किरीटौ च मूर्धनि ।। ४६६ ॥ इत्यादिभूषणग्रामो, दिव्यानि वसनानि च । सर्वाङ्गभूषणं तस्य, यौवनं च सहाऽभवत् ।। ४६७ ।।
॥त्रिभिर्विशेषकम् ।। ननाद नादयन्नाशाः, प्रतिनादेन दुन्दुभिः । पेठुर्जय जगन्नन्देत्यादि मङ्गलपाठकाः ।। ४६८ ॥ १ सर्वसदोषयोगानाम् । * आत्माराममनाः प्राप, मासान्ते सोऽथ पञ्चताम् । २ ग्रीवाभरणम् ।
पूर्वभवचरिते पञ्चमो ललिताङ्गदेव भवः ।
॥ ३४ ॥