________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३३ ।।
पुत्रप्रेम्णा दिवोऽभ्येत्य, स हारं मणिमालिने । दिव्यमुक्तामयमदात्, सोऽयमद्यापि ते हृदि । ४४१ ॥ हरिचन्द्रान्वयेऽभूस्त्वं, सुबुद्धेरन्वये त्वहम् । क्रमागताप्तभावेन, ततो धर्मे प्रवर्त्यसे ॥४४२ ॥ यद्विज्ञप्तमकाण्डे तु, श्रूयतां तत्र कारणम् । यदद्य नन्दनेऽद्राक्षं, चारणश्रमणावहम् ।। ४४३ ॥ जगत्प्रकाशजनकौ, महामोहतमच्छिदौ । एकत्र मिलितौ साक्षात्, सूर्याचन्द्रमसाविव ॥४४४ ॥ कुर्वन्तौ देशनां तत्र, ज्ञानातिशयशालिनौ । तौ मया समये पृौ, प्रमाणं भवदायुषः ॥ ४४५ ।। ताभ्यां तु भवतो मासमात्रमायुर्निवेदितम् । अतस्त्वां त्वरयाम्यद्य, धर्मायैव महामते ! ॥४४६ ॥ महाबलोऽथाऽभिदधे, स्वयम्बुद्ध ! धियांनिधे! । त्वमेवैकोऽसि मे बन्धुर्यन्मत्कार्याय ताम्यसि ॥४४७ ।। आक्रम्यमाणं विषयैर्निद्रालुं मोहनिद्रया । मामजागरयः साधु, शाधि किं साधयाम्यतः ? ॥ ४४८ ॥ आयुष्यल्पेऽधुना धर्मः, साधनीयः कियान मया ? । कीदशं कृपखननं, सद्यो लग्ने प्रदीपेने ॥ ४४९ ।। स्वयम्बुद्धोऽप्युवाचैवं, मा विषीद दृढीभव । परलोकैकसुहृदं, यतिधर्म समाश्रय ।। ४५० ॥ अप्येक दिवसं जीवः, परिव्रज्यामुपेयिवान् । अपवर्गमपि प्राप्नोत्येव स्वर्गस्य का कथा ? ॥ ४५१ ॥ आमेत्युदित्वा स्वसुतं, स्वे पदे प्रत्यतिष्ठिपत् । महाबलस्तदाचार्यः, प्रासादे प्रतिमामिव ।। ४५२ ॥ दीनाऽनाथजनेभ्योऽथ, दयादानमदत्त सः । तथा यथा न कोऽप्यासीद्, याञ्चादीनो जनः पुनः ।। ४५३ ।। विचित्रवस्त्रमाणिक्यसुवर्णकुसुमादिभिः । स चक्रेऽष्टाह्निकां सर्वचैत्येष्विन्द्र इवाऽपरः ।। ४५४ ।। ततश्च क्षमयित्वा स्वजनं परिजनं तथा । दीक्षां मुनीन्द्रपादान्तेऽग्रहीन्मोक्षश्रियः सखीम् ॥ ४५५ ॥ १ शिक्षय । २ अग्नौ । * दाभिज्ञः । + चक्रे सर्वचैत्येषु, पूजां शक्र इवापरः ।
पूर्वभवचरिते चतुर्थो महाबलभवः ।
॥३३॥