________________
त्रिषष्टिशलाकापुरुषचरिते
॥३२॥
देशनान्ते स भूपालस्तं पप्रच्छ कृताञ्जलिः । स्वामिन् ! मम पिता मृत्वा, कां गतिं प्रत्यपद्यत ? ॥ ४२६ ॥ उवाच सोऽथ भगवान्, महाराज ! पिता तव । सप्तमं नरकं प्राप, स्थानं नान्यत्र तादृशाम् ।। ४२७ ।। तदाकर्ण्य समुद्भूतसंवेगः स महीपतिः । वन्दित्वा मुनिमुत्थाय, ययौ निजनिकेतने ।। ४२८ ॥ राज्यं सूनोः सोऽर्पयित्वा, सुबुद्धिमिदमभ्यधात् । प्रव्रजिष्याम्यहं धर्म, मयीवाऽस्मिन् सदा दिशेः ।। ४२९ ।। सोऽप्यूचे प्रव्रजिष्यामि, भवन्तमनु भूपते ! । त्वसुते मत्सुतो धर्म, वक्ष्यत्यहमिव त्वयि ।। ४३० ॥ कर्माद्रिभेदकुलिशं, व्रतं तौ राजमन्त्रिणौ । आददाते सुचिरं च, पालयित्वेयतुः शिवम् ।। ४३१ ।। युष्मद्वंशेऽपरश्चासीद्, दण्डको नाम पार्थिवः । प्रचण्डशासनो दण्डधरः साक्षादिवाऽरिषु ।। ४३२ ।। बभूव तनयस्तस्य, मणिमालीति विश्रुतः । अंशुमालीव तेजोभिरभिव्याप्तदिगन्तरः ।। ४३३ ।। पुत्रमित्रकलत्रेषु, रत्नस्वर्णधनेषु च । प्राणेभ्योऽप्यत्यभीष्टेषु, मूर्छावान् दण्डकोऽभवत् ।। ४३४ ।। आर्त्तध्यानपरः कालाद्, दण्डकः प्राप पञ्चताम् । भाण्डागारे निजे सोऽजगरोऽजायत दुर्गरः ।। ४३५ ।। तत्रागारे प्रविवेश, यो यस्तं तं स जनसे । दारुणात्मा सर्वभक्षी, हुताशन इवोद्यतः ।। ४३६ ॥ अन्यदा ददृशे तेन, मणिमाली गृहं विशन् । प्राग्जन्मस्मरणाच्वात्मसूनुरित्युपलक्षितः ।। ४३७ ।। प्रशान्तां दर्शयन्मूर्ति, सस्नेहो मूर्तिमानिव । प्राग्जन्मबन्धुनः कोऽपीत्यज्ञायि मणिमालिना ।। ४३८ ।। मुनीनां ज्ञानिनां पार्धाज्ज्ञात्वा तं पितरं निजम् । उपविश्य पुरस्तस्य, जैन धर्म शशंस सः ।। ४३९ ।। सोऽवबुध्यार्हतं धर्म, संन्यासं प्रत्यपद्यत । शुभध्यानपरो मृत्वा, देवभूयमियाय च ।। ४४० ॥ १ सम्प्राप्तवैराग्यः । २ कर्मरूपपर्वतविदारणे वजम् । ३ त्यागम् । ४ देवत्वम् ।
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते चतुर्थो महाबलभवः।
।।३२ ।।