________________
त्रिषष्टिशलाकापुरुषचरिते
॥ ३१ ॥
तस्यावसानसमये, जज्ञे धातुविपर्ययः । आसन्ननरकक्लेशवर्णिकामात्रसन्निभः ।। ४१२ ।। आसीत् कण्टकशय्येव, तूलशय्याऽस्य दुःखदा । निम्बवद् विरसान्यासन्, भोज्यानि सुरसान्यपि ॥ ४१३॥ चन्दनागरुकर्पूरकस्तूर्यः पूतयोऽभवन् । शत्रुवत् पुत्रमित्राद्या, दृशोरुद्वेगहेतवः ।। ४१४ ।। कर्णक्लेशाय गीतानि, बभूवुः, क्रोष्टुनादवत् । पुण्यच्छेदेऽथवा सर्वं प्रयाति विपरीतताम् ।। ४१५ ।। सुखेतरैस्तं विषयोपचारै रतिदैः क्षणम् । कुरुमतीहरिचन्द्रौ, प्रच्छन्नं प्रत्यजागृताम् ।। ४१६ ।। चुम्ब्यमान इवाङ्गारैः प्रत्यङ्गं दाहविह्नलः । रौद्रध्यानपरः प्रापदवसानं स भूपतिः ।। ४१७ ।। तस्यौर्ध्वदेहिकं कृत्वा, हरिचन्द्रस्तदात्मजः । अशिषद् विधिवद् राज्यं, सदाचारपथाध्वगः ।। ४१८ ॥ सोऽत्रापि दृष्ट्वाऽघफलं दृष्ट्वा तन्मरणं पितुः । धर्ममेव पुमर्थेषु, तुष्टावार्कं ग्रहेष्विव ।। ४१९ । सुबुद्धिं बालसुहृदं, श्रावकं सोऽन्यदाऽऽदिशत् । धर्मविद्भ्योऽन्वहं धर्मः श्रुत्वा शंस्यस्त्वया मम ॥ ४२० ।। सुबुद्धिर्विदधे नित्यं तत्तथाऽत्यन्ततत्परः । अनुकूलनिदेशो हि सतामुत्साहकारणम् ।।४२१ ।। प्रत्यहं हरिचन्द्रोऽपि धर्मं तत्कथितं भृशम् । श्रद्दधे पापभीतः सन्, रोगभीत इवौषधम् ॥ ४२२ ॥ अन्यदा बहिरुद्याने, शीलन्धरमहामुनेः । उत्पन्ने केवलज्ञानेऽभीयुर्देवास्तमर्चितुम् ॥ ४२३ ॥ सुबुद्धिनैवं कथिते, श्रद्धोलिखितमानसः । स राजा तुरगारूढस्तं मुनीन्द्रमुपाययौ ।। ४२४ ।। नमस्कृत्योपविष्टे च तस्मिन् राज्ञि महामुनिः । विदधे कुमतध्वान्तकौमुदीं धर्मदेशनाम् ॥ ४२५ ॥ १ दुर्गन्धमय्यः । ★ रिश्चन्द्रौ । + रिश्चन्द्रं । पथानुगः । • रिश्चन्द्रो । २ कुमतान्धकारचन्द्रिकाम् ।
प्रथमं पर्व
प्रथमः
सर्गः श्रीऋषभ
स्वामिचरितम् ।
पूर्वभव
चरिते
चतुर्थो महाबल
भवः ।
॥३१ ॥