________________
त्रिषष्टिशलाकापुरुषचरिते
॥३०॥
चिरादभ्यागतं मित्रमिव को नाम यौवनम् । उपेक्षेत तदुचिता, प्रतिपत्तिमकल्पयन् ? ।। ३९७ ॥ धर्मोपदेशस्तदयं, त्वयाऽनवसरे कृतः । वीणायां वाद्यमानायां, वेदोद्गारो न राजते ॥३९८ ॥ परलोको हि धर्मस्य, फलं सन्दिग्धमेव तत् । तदैहिकसुखास्वादमकाण्डे किं निषेधसि ? ॥ ३९९ ॥ अथ विज्ञपयामास, स्वयम्बद्धः कृताञ्जलिः । आवश्यके धर्मफले, मा शतिष्ठाः कदाचन ।। ४०० ।। किं न स्मरसि बालत्वे, यदावां नन्दने वने । अपश्याव गतावेकं, कान्तिरूपधरं सुरम् ? ॥४०१ ॥ सप्रसादो जगादैवं, स देवस्त्वां तदा नृप ! अहं ह्यतिबलो नाम, भवतोऽस्मि पितामहः ॥ ४०२ ॥ क्रूरमित्रादिवोद्विग्नोऽमुष्माद् वैषयिकात् सुखात् । राज्यं तृणमिव त्यक्त्वा, त्रिरत्नीमहमाश्रयम् ।।४०३ ।। व्रतप्रासादकलसः, संन्यासोऽन्तक्षणे मया । गृहीतस्तत्प्रभावेण, जातोऽहं लान्तकाधिपः ।। ४०४ ।। प्रमद्वरेण न स्थेयं, तत् त्वयाऽपीत्युदीर्य च । विद्योतितवियद्विद्युदिव सोऽथ तिरोदधे ।। ४०५ ॥ मन्यस्व परलोकं तद्, वचः पैतामहं स्मरन् । प्रत्यक्षेऽपि प्रमाणे किं, प्रमाणान्तरकल्पना ? ॥४०६ ॥ राजाऽप्यूचे स्मारितोऽस्मि, साधु पैतामहं वचः । परलोकमहं मन्ये, धर्माधर्मनिबन्धनम् ॥ ४०७ ॥ मिथ्यादृग्वाक्पांशुपुञ्जजलदः सोऽथ मन्त्रिराट् । लब्धावकाशः सानन्दमिति वक्तुं प्रचक्रमे ॥ ४०८ ॥ तव वंशेऽभवत् पूर्व, कुरुचन्द्रो नरेश्वरः । जाया कुरुमती तस्य, हरिचन्द्रश्च नन्दनः ।। ४०९ ।। नृपतिः स तु कौलोऽभून्महारम्भपरिग्रहः । धुर्योऽनार्येषु कार्येषु, निर्दयश्च कृतान्तवत् ।। ४१० ॥ दुराचारोऽपि रौद्रोऽपि, स राज्यं बुभुजे चिरम् । पूर्वोपार्जितपुण्यानां, फलमप्रतिघं खलु ॥४११ ॥ १ ज्ञानदर्शनचारित्ररूपाम् । २ प्रमादिना । ३ प्रकाशिताकाशः । * हरिश्चन्द्र । ४ शाक्तः । + प्रतिमं ।
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते चतुर्थो महाबलभवः ।
॥३०॥