________________
त्रिषष्टिशलाकापुरुषचरिते
॥२९॥
विवाहसमयादूज़, जम्पत्योः, क्षणनाशिनोः । न जायायाः पतिः पत्युन जायेत्यसमञ्जसम् ।। ३८२ ।। इह कृत्वाऽशुभ कर्म, स नाऽमुत्राऽश्रुते फलम् । भुङ्क्तेऽन्यः किन्तु तदिति, कृतनाशाऽकृतागमौ ।।३८३ ॥ तुर्योऽप्युवाच मायाऽसौ, तत्त्वतो नाऽस्ति किञ्चन । दृश्यमानमपि स्वप्न-मृगतृष्णादिसन्निभम् ॥३८४ ॥ गुरुः शिष्यः पिता पुत्रो, धर्मोऽधर्मो निजः परः । इत्यादि दृश्यते यत् स, व्यवहारो न तात्त्विकम् ॥३८५ ॥ विहाय जम्बुको मांसं, तीरे मीनाय धावितः । मीनोऽथ प्राविशत् तोये, मांसं गृधोऽहरद् यथा ।। ३८६ ॥ तथैहिकसुखं हित्वा, परलोकाय धाविताः । आत्मानमुभयभ्रष्टा, वञ्चयन्ते हि ते नराः ।। ३८७ ।। पाखण्डिनामलीकाज्ञा, श्रुत्वा नरकभीरवः । दण्डयन्ति निजं देहमहो ! मोहाद् व्रतादिना ।। ३८८ ॥ यथा मापातशयेकाघ्रिणा नृत्यति लावेकः । तथाऽभिशक्य नरकपातं जन्तुस्तपस्यति ।। ३८९ ॥ स्वयम्बुद्धोऽब्रवीद् वस्तु, न सच्चेदर्थकृत् कथम् ? ।माया चेदीदृशी तर्हि, स्वप्नेभः किं न कार्यकृत् ? ॥३९० ॥ कार्यकारणभावं चेद्, वस्तूनां पारमार्थिकम् । न मन्यसे तदा किं त्वं, बिभेषि पततोऽशनेः ? ॥३९१ ॥ एवं सति न त्वं नाऽहं, न वाच्यं न च वाचकः । तदेष्टप्रतिपत्तिः स्याद्, व्यवहारकरी कथम् ? ॥ ३९२ ।। वितण्डापण्डितैरेभिः, स्वयं विषयगृध्नुभिः । देव ! प्रतार्यसे नित्यं, शुभोदर्कपराङ्मुखैः ।। ३९३ ।। ततो विवेकमालम्ब्य, विषयांस्त्यज दूरतः । धर्ममेवाश्रय स्वामिन्नत्राऽमुत्र च शर्मणे ।। ३९४ ।। अथ राजाऽब्रवीदेवं, प्रसादसुभगाननः । स्वयम्बद्ध ! महाबुद्धे !, साधु साधूक्तवानदः ।। ३९५ ।। युक्तं धर्म उपादेयो, न धर्मद्वेषिणो वयम् । उपादीयेत कालेऽसौ, मन्त्रास्त्रमिव सङ्गेरे ॥३९६ ॥ १ असत्यज्ञाम् । २ पक्षिविशेषः । ३ विषयलोलुपैः । ४ शुभोत्तरकालविमुखैः । * वार्जय स्वा सं 1५ युद्धे ।
AAAAAAAHASRAHASABHARATI
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते चतुर्थो महाबलभवः ।
॥२९॥