________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २८ ॥
पुमान् रामादिरूपेषु, विलग्नेनेह चक्षुषा । वृतिलग्नोपसंव्यानाञ्चलेनेव स्खलत्यहो ! ।। ३६८ ।। मुहूर्त्तसुखदानेन, मोहयन्ती मुहुर्मुहुः । धूर्त्तमैत्रीव सङ्गीतिः, कुशलाय न सर्वथा ।। ३६९ ।। तत्पापस्यैकसुहृदो, धर्मस्यैकविरोधिनः । नरकस्याकृष्टिपाशान्, विषयान् मुञ्च दूरतः ॥ ३७० ॥ यत् प्रेष्य एको भवति, स्वामी भवति चाऽपरः । एकः प्रार्थयते भिक्षामपरश्च प्रयच्छति ।। ३७१ ।। वाहनं च भवत्येकस्तमन्यश्चाधिरोहति । अभयं याचते चैको, द्वितीयस्तु ददाति तत् ॥ ३७२ ॥ इत्यादि सम्यगेवेह, धर्माधर्मफलं महत् । पश्यन्नपि न मन्येत यस्तस्मै स्वस्ति धीमते ! ।। ३७३ ।। तदसद्वागिवाऽधर्मो, हेयो दुःखनिबन्धनम् । स्वामिन् ! सद्वागिवादेयो, धर्मः शर्मैककारणम् ॥ ३७४ ॥ ऊचे ततः शतमतिर्नात्मा कश्चिदिहाऽपरः । पदार्थविषयज्ञानात्, प्रतिक्षणविभङ्गुरात् ।। ३७५ ।। यद्वस्तुषु स्थिरत्वे धीर्वासना तत्र कारणम् । पूर्वापरक्षणानां तदेकत्वं वास्तवं न तु ।। ३७६ ।। अथोवाच स्वयम्बुद्धो, वस्तु नास्ति निरन्वयम् । अम्भस्तृणादि हि गवां, हन्त ! दुग्धाय कल्पते ॥ ३७७ ॥ आकाशपुष्पवत् कूर्मरोमवच्च निरन्वयम् । नैव वस्तु भवत्यत्र, तद् वृथा क्षणभङ्गधीः ।। ३७८ ॥ वस्तु चेत् क्षणविध्वंसि, सन्तानः क्षणिको न किम् ? । सन्तानस्य च नित्यत्वे, समस्तं क्षणिकं कुतः ? ।। ३७९ ।। सर्वभावेष्वनित्यत्वे, निहितप्रेतिमार्गणम् । स्मरणं प्रत्यभिज्ञा च कथं नामोपपद्यते ? ॥ ३८० ॥ जन्मानन्तरनाशित्वे, द्वितीयक्षणसम्भवी । पित्रोर्न पुत्रः पितरौ न पुत्रस्येत्यसङ्गतिः ।। ३८१ ।। १ निःसन्तानम् । २ न्यासीकृतस्य प्रतियाचनम् ।
प्रथमं पर्व प्रथमः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
पूर्वभव
चरिते चतुर्थो
महाबल
भवः ।
113211