________________
त्रिषष्टिशलाकापुरुषचरिते
॥२७॥
यात्येकमेव चैतन्यं, जन्मतोऽन्यत्र जन्मनि । शैशवादिव तारुण्ये, तारुण्यादिव वार्द्धके ।।३५२ ।। विना हि पूर्वचैतन्यानुवृत्तिं जातमात्रकः । अशिक्षितः कथं बालो, मुखमर्पयति स्तने ? ।। ३५३ ।। अचेतनेभ्यो भूतेभ्यश्चेतनो जायते कथम् ? । कारणत्याऽनुरूपं हि, कार्यं जगति दृश्यते ।। ३५४ ।। प्रत्येकं युगपद् वा स्याद्, भूतेभ्यश्चेतनो ननु । आधः पक्षो यदि तदा, तावन्तश्चेतना न किम् ? ||३५५ ।। अथ द्वितीयः पक्षः स्यात्, तदा भिन्नस्वभावकैः । भूतैरेकस्वभावोऽयं, जन्यते चेतनः कथम् ? ||३५६ ।। रूपगन्धरसस्पर्शगुणा तावद् वसुन्धरा । प्रत्यक्षमेतदापोऽपि, रूपस्पर्शरसात्मिकाः ।। ३५७ ।। रूपस्पर्शगुणं तेज, एकस्पर्शगुणो मरुत् । अमीषामेवमाबालं, व्यक्ता भिन्नस्वभावता ।। ३५८ ॥ तोयादिभ्यो विसदृशां, मुक्तानां जन्मदर्शनात् । भूतेभ्योऽचेतनेभ्योऽपि, चेतनः सम्भवीति चेत् ।। ३५९ ।। तन्न युक्तं यतस्तोयं, मौक्तिकादिषु दृश्यते । एकं पौद्गलिकं रूपं, वैसदृश्यं ततः कथम् ? ।। ३६० ।। किञ्च पिधेदकादिभ्यो, मदशक्तिरचेतना । अचेतनेभ्यो जातेति, दृष्टान्तश्चेतने कथम् ? ॥ ३६१ ।। न च देहात्मनोरैक्यमिति वाच्यं कदाचन । यद्देहे तदवस्थेऽपि, चेतनो नोपलभ्यते ।।३६२ ।। यच्चैकः पूज्यते ग्रावा, मूत्राद्यैर्लिप्यतेऽपरः । तदसत् सुखदुःखादि, कुतस्त्यमपचेतने ? ॥३६३ ।। ततो देहाद् विभिन्नोऽयमात्माऽस्ति परलोकवान् । विद्यते परलोकोऽपि धर्माधर्मनिबन्धनम् ।। ३६४ ।। अङ्गनालिङ्गनादग्नितापादिव समन्ततः । विलीयते मनुष्याणां, विवेको नवनीतवत् ।। ३६५ ।। निरर्गलं बहुरसांस्तांस्तानाहारपुद्गलान् । भुञ्जानो नैव जानाति, मत्तः पशुरिवोचितम् ।।३६६ ॥ चन्दनागरु-कस्तूरी-घनसारादिगन्धतः । आक्रामति नरं सद्यो, दन्दशूक इव स्मरः ।। ३६७ ॥
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते चतुर्थो महाबलभवः ।
||२७||