________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः
सर्गः
॥२६॥
तदस्ति चेतनो यावत्, चेष्ट्यते तावदिच्छया । चेतनस्य विनष्टस्य, विद्यते न पुनर्भवः ॥३३८ ।। य एव म्रियते जन्तुः, स एवोत्पद्यते पुनः । इत्येतदपि वाङ्मात्रं, सर्वथाऽनुपपत्तितः ॥३३९ ॥ शिरीषकल्पे तत्तल्पे, रूपलावण्यचारुभिः । रमणीभिः समं स्वामी, रमतामविशतितम् ॥३४०॥ भोज्यान्यमृतरूपाणि, पेयानि च यथारुचि । स्वाद्यन्तां स्वामिना स्वैरं, स वैरी यो निषेधति ।। ३४१ ॥ कर्पूरागरुकस्तूरीचन्दनादिभिरीचितः । एकसौरभ्यनिष्पन्न, इव तिष्ठ दिवानिशम् ॥ ३४२ ॥ उद्यानयानजगतीचित्रशालादिशालि यत् । तत्तत् क्षितीश ! प्रेक्षस्व, चक्षुःप्रीत्यै प्रतिक्षणम् ।। ३४३ ॥ वेणुवीणामृदङ्गानुनादिभिर्गीतनिस्वनैः । दिवानिशं तव स्वामिन्नस्तु कर्णरसायनम् ॥३४४ ॥ यावज्जीवेत् सुखं जीवेत्, तावद् वैषयिकैः सुखैः । न ताम्येद् धर्मकार्याय, धर्माधर्मफलं क्व तत् ? ॥३४५ ॥ स्वयम्बुद्धस्ततोऽवादीनास्तिकैः स्वपरारिभिः । अन्धैरन्धा इवाकृष्य, पात्यन्ते धिगधो जनाः ।। ३४६ ।। स्वसंवेदनवेद्योऽयमात्माऽस्ति सुखदुःखवित् । निषेधितुं बाधाभावाच्छक्यते न हि केनचित् ।। ३४७ ॥ सुखितोऽहं दुःखितोऽहमिति कस्याऽपि जातुचित् । जायते प्रत्ययो नैव, विनाऽऽत्मानमबाधितः ।। ३४८ ॥ स्वशरीरे स्वसंवित्तेरेवमात्मनि साधिते । अस्त्येव परकीयेऽपि, शरीरे सोऽनुमानतः ॥३४९ ।। निश्चीयते शरीरेऽस्ति, परकीयेऽपि चेतनः । सर्वत्र बुद्धिपूर्वायाः, क्रियाया उपलम्भतः ॥ ३५० ।। य एव म्रियते जन्तुः, स एवोत्पद्यते पुनः । अस्त्येवं परलोकोऽपि, चेतनस्य न संशयः ।। ३५१ ॥ १-असिद्धितः । २ शिरीषकुसुमतुल्ये । ३ शय्यायाम् । * भिरर्चितः । ४ सौगन्ध्योत्पन्नः । ५ कर्णामृतम् । ६ स्वानुभववेद्यः । ७ विश्वासः । ८ स्वानुभवात् ।९ प्राप्तेः ।
श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते चतुर्थो महाबलभवः ।
॥२६॥