________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
प्रथमः
॥२५॥
दर्शरात्रिरिवाऽत्यन्तमिथ्यात्वतिमिराकरः । ततो विषोपममतिः, सम्भिन्नमतिरब्रवीत् ॥ ३२४ ।। साधु साधु स्वयम्बुद्ध !, स्वामिनो हितकाम्यसि । यदाहार इवोद्गारैर्गिरा भावोऽनुमीयते ।। ३२५ ॥ ऋजोः सदा प्रसन्नस्य, स्वामिनः सुखहेतवे । वदन्त्येवं कुलामात्यास्त्वादृशा एव नाऽपरे ।। ३२६ ।। निसर्गकठिनः कस्त्वामुपाध्यायोऽध्यजीगपत् ? । अकाण्डाशनिपाताभ, प्रभौ यदिदमब्रवीः ।। ३२७ ॥ ॥ स्वयं भोगार्थिभिः स्वामी, सेव्यते सेवकैरिह । मा भुक्थास्त्वं तु भोगानित्युच्यते स कथं नु तैः ? ॥३२८ ॥ त्यक्त्वा यदैहिकान् भोगान्, परलोकाय यत्यते । हित्वा हस्तगतं लेा, कूर्परालेहनं हि तत् ।। ३२९ ॥ परलोकफलो धर्मः, कीर्त्यते तदसङ्गत्तम् । परलोकोऽपि नाऽस्त्येवाऽभावतः परलोकिनः ॥ ३३०॥ पृथ्व्यप्तेजःसमीरेभ्यः, समुद्भवति चेतना । गुडपिोदकादिभ्यो, मदशक्तिरिव स्वयम् ।। ३३१ ॥ शरीरान्न पृथक् कोऽपि, शरीरी हन्त ! विद्यते । परित्यज्य शरीरं यः, परलोकं गमिष्यति ॥ ३३२ ॥ निःशङ्कमुपभोक्तव्यं, ततो वैषयिकं सुखम् । स्वात्मा न वञ्चनीयोऽयं, स्वार्थभ्रंशो हि मूर्खता ।। ३३३ ॥ धर्माधर्मी च नाशङ्कयौ, विघ्नहेतू सुखेषु तत् । तावेव नैव विद्येते, यतः खरविषाणवत् ।। ३३४ ॥ स्नपनेनाङ्गरागेण, माल्यवस्त्रविभूषणैः । यदेकः पूज्यते ग्रावा, पुण्यं तेन व्यधायि किम् ? ॥ ३३५ ॥ अन्यस्य चोपरि ग्राव्ण, आसित्वा मूत्र्यते जनैः । क्रियते च पुरीषादि, पापं तेन व्यधायि किम् ? ।। ३३६ ।। उत्पद्यन्ते विपद्यन्ते, कर्मणा यदि जन्तवः । उत्पद्यन्ते विपद्यन्ते, बुदबुदाः केन कर्मणा ? || ३३७ ॥ १ अमावास्यारात्रिः । * रिवोत्पन्नमि । २ अनवसरे वज्रपाततुल्यम् । ३ हस्तमध्यभागः कोणी" इति लोके । ४ गर्दभशृङ्गवत् । ५ पाषाणः ।
सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते
चतुर्थो
महाबलभवः ।
॥२५॥